________________
Shri Mahavir Jain Aradhana Kendra
८८
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
विश्वामित्रः वत्स राघव, उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वमेतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये
चित्राङ्गीयं रमयति तमः स्तोमलीला धरित्री ॥ ४९ ॥ लक्ष्मणः – (सनिर्वेदम् ।)
तेजोमयं तमोमयमन्यतरस्यां तदेव दिक्चक्रम् ।
किमपि विचित्रा धात्रा सृष्टिरियं भुवनकोषस्य ॥ ५० ॥ ( सर्वतोऽलोक्य 1)
चूडारलैः स्फुरद्भिर्विषधरविवराण्युज्ज्वलान्युज्ज्वलानि प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः । किं चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रासंघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥ ५१ ॥
स्याज्जपे' इत्यमरः । उन्मुक्ताभिरिति । ताभिरेव स्वच्छायाभिरिदानीं सर्वतः सर्वत्र निचुलितमिव पिहितमिवैतद्विश्वं संसारः प्रेक्ष्यते दृश्यते । मया जनैर्वा । कीदृशीभिः । दिवसं व्याप्योन्मुक्ताभिरुच्छन्नाभिः । दिने सौरेण तेजसाभिभूताभिरित्यर्थः । दिवस मित्यत्यन्तसंयोगे द्वितीया । पर्यन्तेषु प्रान्तेषु जलधौ समुद्रे मध्ये रत्नसानौ सुमेरौ च ज्वलति सति चित्राङ्गी सतीयं धरित्री पृथिवी रमयतितरामत्यर्थ रतिमुत्पादयति । कीदृशी । तमः स्तोमस्यान्धकारसमूहस्य लीला विलासो यस्यां सा । अत एव चित्राङ्गी । तमःस्तोमरत्नसलिलसंबन्धाच्छयाम रक्तश्वेतत्वसंभवात् । 'रत्नसानुः सुरालयः' इत्यमरः । तेजोमयमिति । भुवनकोषस्य ब्रह्माण्डस्येयं धात्रा सृष्टिः किमप्यनिर्वचनीयं यथा भवत्येवं विचित्राश्चर्यजनिका । कुत इत्यत आह-तेजोमयमित्यादि । अन्यतरस्यांशब्दः समुच्चये विकल्पे वा । तदेव दिक्चक्रं तेजोमयं तमोमयं च । एकतस्तेजोमयमन्यतस्तमोमयमित्यर्थः । धात्रा सृष्टिरिति 'उभयप्राप्तौ कर्मणि-' इति कर्मण्येव षष्ठी । अतः कर्तरि तृतीया । 'विचित्रा सूत्रस्य कृतिः पाणिनिना' इतिवत् । 'कोषो जीवे धने कोशे' इति धरणिः । चूडारत्नैरिति । विषधर विवराण्युज्ज्वलन्युज्ज्वलान्यत्यन्तोज्ज्वलानि दृश्यन्ते । कैः । चूडारत्नैः । अर्थात्सर्पाणामेव । कृशानुरग्निः सूर्यकान्तान्मणिविशेषाच्चक्रवाकी मनसि निविशते प्रविशति । रात्रौ चक्रवाकीणां विरहेण संतापोदयात् । किं चामी दीपा भान्ति
१. 'रामभद्र' इति पाठः. २. 'तमस्तोमनीला' इति पाठः ३. 'धातु:' इति पाठः.
For Private and Personal Use Only