________________
Shri Mahavir Jain Aradhana Kendra
२ अङ्कः ]
www.kobatirth.org
अनर्घराघवम् ।
रामः – (सर्वतो निरूप्य ।) वत्स लक्ष्मण, तापनैरेव तेजोभिः ष्टनिर्वाणमेचकाः ।
दिशो जाताः प्रतीची तु समुदाचरति क्रमात् ॥ ४७ ॥
किं च ।
Acharya Shri Kailassagarsuri Gyanmandir
कांचिद्विभ्रति भूतिमाश्रमभुवो वैतानवैश्वानरज्वालोपप्लवमान धूमवैलभीविभ्रान्तदिग्भित्तयः ।
श्रूयन्ते वटवस्तृतीयसवनखाध्याय दीर्घानपि
स्पर्धाबन्धमनोहरं प्रति मुहुः खान्द्राघयन्तः खरान् ॥ ४८ ॥
८७
स्येमा औदन्वतीः अपो जलानि तन्वत्कुर्वत् । त्रयी वेदत्रयम् । मन्त्रमयादिति संवन्धेनैव मन्त्रसंस्कारसंपन्नत्वमपामित्याशयः । तापनैरिति । प्रतीच्यन्या दिशस्तापनैरादित्यसंबन्धिभिः किरणैः प्लुष्टा दग्धा अनन्तरं निर्वाणा अत एव मेचकाः श्यामा एवंभूता इव जाताः । ज्वलदङ्गारादिकं निर्वाणे सति श्यामत्वमाप्नोतीति ध्वनिः । तु पुनः प्रतीची पश्चिमा दिक् क्रमात्समुदाचरति पूर्वरूपं प्राप्नोति । यद्वा समुदाचरति राजते । यद्वा दिनाद्विभेतीत्यर्थः । 'समुदाचारस्तु शोभायां पूर्वरूपे भयेऽपि च' इति विश्वः । 'निर्वाणमस्तंगमने' इति । ‘कालश्यामल मेचकाः' इत्यमरः । प्रुष्टपुष्टोषिता दग्धे' इति च । कांचिदिति । आश्रमस्य भूमयः कांचिदनिर्वचनीयां भूतिं शोभां बिभ्रति धारयन्ति । कीदृश्यः । वितान संबन्धी यो वैश्वानरो वह्निस्तस्य ज्वालयोपलवमानोऽधिकतां गच्छन्यो धूमः स एव वलभी सौधोपरिग्रहम् । उच्चैस्त्वेन रूपकम् । तत्र विभ्रान्ता विशेषतो भ्रमं प्राप्ता दिग्भित्तयो दिक्प्रदेशा यत्र तास्तादृश्यः । 'उपोऽधिके च' इति सूत्रादुपशब्दस्याधिकार्थता | 'सौधोपरि कुटीं वलभीं विदुः' इति शाश्वतः । 'भित्तिः कुड्ये प्रदेशे च ' इति धरणिः । ' वितानो यज्ञविस्तार -' इति विश्वः । वटवो ब्रह्मचारिणः शिशवोऽपि । श्रूयन्त । इहाधाराधेययोरभेदोपचारावनिश्रवणमेव विवक्षितम् । यथा माघे - ' अश्रूयत पाञ्चजन्यः' इति । ‘सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः' इति न्यायाद्विशेषणलाभः । कीदृशाः । स्पर्धान्योन्यजिगीषा तस्या बन्धेनानुबन्धेन मनोहरं यथा स्यादेवं प्रति मुहुर्वारंवारं स्वान्खरान्द्राघयन्तो दीर्घीकुर्वन्तः । 'प्रियस्थिर-' इत्यादिना दीर्घस्य द्राघादेशः । कीदृशान् । तृतीयसवने स्नाने स्वाध्यायेन जपेन दीर्घानपि । 'स्वाध्यायः
३. ' वडभीविश्रान्त
१. 'अवलोक्य' इति पाठ: . २. 'दग्ध --' इति पाठ:. इति पाठः •
For Private and Personal Use Only