________________
Shri Mahavir Jain Aradhana Kendra
८६
( सर्वतोऽवलोक्य 1 )
अपि च ।
www.kobatirth.org
१.
काव्यमाला |
अयमपि खरयोषित्कर्णकाषायमीषद्विसृमरतिमिरोर्णाजर्जरोपान्तमर्चिः । मदकलकलविङ्कीकाकुनान्दी करेभ्यः
क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति ॥ ४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्रसंस्कारसंपन्नास्तन्वदौदन्वतीरपः ।
एतत्रयीमयं ज्योतिरादित्याख्यं निमज्जति ॥ ४६ ॥
धिङ् निन्द्य एष सूर्यश्चरमाचलचूडचुम्बी जात इत्यन्वयः । पङ्केरुहप्रकरः पद्मसमूहस्तस्य जागरणे प्रकाशने प्रदीप इव प्रदीपः । आः सर्वत्र रोषोक्तावनास्थायां वा । 'आः स्म - रणेऽपाकरणे कोपसंतापयोरपि' इति मेदिनीकरः । सर्वतः सर्वत्र कैरवं कुमुदं स्फुरतु । शत्रोः सूर्यस्याभावात् । उदरंभरयः कुक्षिंभरयश्चकोराः पक्षिविशेषा ज्योत्स्नाकरम्भं चन्द्रिकारूपदधिसक्तुकं पिबन्तु | अमृतदीधितेरुदयात् । उदरंभरिरिति 'फलेग्रहिरात्मं
रिश्व' इति चकारस्यानुक्तसमुच्चयार्थत्वात्सिद्ध्यति । 'उभौ त्वात्मंभरिः कुक्षिंभरिः खोदरपूरके' इत्यमरः । 'सिते कुमुदकैरवे' इति च । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यपि । ‘करम्भो दधिसक्तवः' इति च । अयमपीति । कैरवस्फुरणचकोरज्योत्स्नापानापेक्षयापिशब्दः । भानुमान्सूर्यः क्षितिरुहशिखरेभ्यो वृक्षाग्रेभ्योऽर्चिस्तेज उच्चिनोति वर्तुलीकरोति । मदकला या कलविङ्की चटकस्त्री 'गर्तुल' इति प्रसिद्धा । तस्याः काकुर्ध्वनिभेदः सैव नान्दी वाद्यभेदः स्तुतिर्वा तत्करेभ्यः । अर्चिः कीदृशम् । खरयोषिद्गर्दभी तस्याः कर्णवत्कषायेण रक्तमिव रक्तं काषायम् । 'तेन रक्तं रागात्' इत्यण् । अर्चिषः कषायत्वं कविसंप्रदायसिद्धम् । यथा यशसः शौक्लयम् । ईषत्किचिद्विसृमरं प्रसरणशीलं यत्तिमिरमन्धकारं तरेवोर्णा भ्रुवोरन्तरावर्तकं तद्वज्जर्जरमन्तरितमुपान्तं समीपं यस्य तत्तथा । यद्वोर्णा शिखा । मेषादिलोमप्रायया तिमिरशिखया जर्जरमन्तरितमुपान्तं समीपं यस्य । यद्वा तिमिरमेवोर्णा योग्यत्वात्कृष्णमेषाहिलोम तया जर्जरोपान्तम् । 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवो:' इति मेदिनीकरः । 'ऊर्णा मेषादिलोन्यग्रे' इति शाश्वतः । विसृमरेति 'सृघस्यदः क्मरच्' । ' खरः स्यात्तीक्ष्णघर्मयोः । गर्दभे स्त्री- ' इत्यादि मेदिनीकरः । ' भवेन्मदकलो मत्ते' इति च । 'चटकः कलविङ्कः स्यात्तस्य स्त्री कलविङ्किका' इत्यमर: । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इति च । मन्त्रेति । मन्त्रसंस्कारो मन्त्रजनितसंस्कारः । मन्त्रमयत्वादादित्यस्य । उदन्वान्समुद्रस्त
'दृष्ट्वा '; 'अवलोक्य च' इति पाठः.
For Private and Personal Use Only