________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
अनर्घराघवम् । विश्वामित्र:-(खगतम् ।) अये, किमप्युत्साहवर्धनाय प्राग्भवीयमनुस्मारितमन्तःकरणमनयोः । तदेतावदस्तु । अन्यतः प्रक्षिमापि । (प्रत्यगवलोक्य प्रकाशं सैसंभ्रमम् ।) कथमुदयगिरिकाश्मीरकुङ्कमकेदारस्य प्रभातसंध्यालतायाः प्रथमस्तबको गभस्तिमाली हस्ताहस्तिकया कुतूहलिनीभिर्दिगङ्गनाभिर्वारुणी यावदुपनीतः । (सनिर्वेदं च ।)
यातोऽस्तमेष चरमाचलचूडचुम्बी ___ पङ्केरुहप्रकरजागरणप्रदीपः । आः सर्वतः स्फुरतु कैरवमाः पिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः ।। ४४ ॥
क्रीडया वामनो वामनरूपी । यद्वा कौतुकजनको वामनः कौतुकवामनः । शाकपार्थिवादिः । 'कौतुकं कपटेऽपि स्यात्' इति कोषात्कपटेन वामन इति वार्थः । तमिव पुराणमुनिमिव वां युवामवलोक्योपलभ्य तपखिनोऽद्य नयनं लोचनं मनाक्खल्पमुदमीमि. लनुदमीलयन्ति स्म । “किंचिदीषन्मनागल्पम्' इत्यमरः । उन्मनीभवत उन्मनस्की भवतः प्राग्भवीयसंस्कारोद्बोधेन तत्तत्कर्मस्मरणात् । उन्मनीभवत इत्यत्र 'अरुर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च' इति विप्रत्ययः सलोपश्च । प्राग्भवीयं पूर्वजन्मोद्भवम् । 'वृद्धाच्छः' इति छः । अन्तःकरणं मनः । प्रक्षिपामि प्रेरयामि । प्रत्यक् पश्चिमतः । "दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः' इत्यमरः । उदयगिरिरेव काश्मीरो देशविशेषस्तज्जातं यत्कुङ्कुमम् । कुङ्कुमस्य काश्मीरदेश एवोत्पादत्वात् । तस्य केदारस्य क्षेत्रस्य । प्रभातसंध्याविशेषणम् । अजहल्लिङ्गतयान्वयः। प्रथमस्तबक आद्यगुच्छः । लोहितत्वाद्वर्तुलत्वाच्च । गभस्तिमाली सूर्यः । हस्तश्च हस्तश्च हस्ताहस्तिका । 'हाथी' इति प्रसिद्धा । मयूरव्यंसकादित्वात्समासः । 'इच्कर्मव्यतिहारे' इतीच् । 'अन्येभ्योऽपि दृश्यते' इति दीर्घः । 'न सामिवचने' इति ज्ञापकात्खार्थे कन् । 'खार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति स्त्रीत्वम् । 'हस्तानुहस्तिकया' इति पाठेऽनुगतो हस्तोऽनुहस्तः । शेष समानम् । वारुणी पश्चिमा दिक् । 'केदारोऽदौ शिवे क्षेत्रे' इति मेदिनीकरः । 'वारुणी मण्डदूर्वायां प्रतीचिसुरयोरपि' इति च । 'स्याद्गुच्छकस्तु स्तबकः' इत्यमरः । वैराग्यादिना मनःखेदो निर्वेदः। निर्वेदमेव स्फोरयति-यात इति । एष सूर्योऽस्तं यातः। चरमाचलस्यास्तपर्वतस्य चूडं शिरश्चुम्बितुं शीलं यस्य सः । 'जातो धिगेषः' इति पाठे
१. 'क्षिपामि' इति पाठः. २. 'ससंभ्रमम्' इति क्वचिन्नास्ति. ३. 'जातः स एषः' इति पाठः. ४. चूललम्बी' इति पाठः. ५. 'संप्रति' इति पाठः. ६. 'ज्योत्स्नां कषायमधुरामधुना चकोराः' इति पाठः.
For Private and Personal Use Only