________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
काव्यमाला। विश्वामित्रः-(आलिङ्गय ।) वत्सौ, किमन्यदाशास्महे ।
युवाभ्यामभिनिवृत्तयोगक्षेमस्य वज्रिणः । ऐश्वर्यप्रक्रियामात्रकृतार्थाः सन्तु हेतयः ॥ ४१ ॥
(उभौ तूष्णीमधोमुखौ स्तः ।) विश्वामित्र:-(विहस्य ।) वत्सौ, समन्तादुपशीलितोऽयं संनिवेशः। कैच्चिदस्मदीयास्तपोवनभूमयो रमयन्ति वामुपस्नेहयति वा गार्हस्थ्यमृषीणाम् । उभौ-(सप्रश्रयम् ।) भगवन् ,
रम्यमेतदरम्यं वा कः परिच्छेत्तुमर्हति । किं तु द्वयातिगं चित्तमद्य नौ पश्यतोरभूत् ॥ ४२ ॥
(इति सर्वे यथोचितमुपविशन्ति ।) विश्वामित्र:-(साकूतस्मितम् ।) वत्सौ, इह वनेषु स कौतुकवामनो मुनिरतप्त तपांसि पुरातनः । तमिव वामवलोक्य तपस्विनो नयनमद्य मनाज़ुदमीमिलन् ।। ४३ ॥
(उभौ मुहूर्तमुन्मनीभवतः ।)
रिकमिति तत्र कुशल इत्यर्थे ठञ् । आशास्मह आशिषं दद्मः। 'आङः शासु इच्छायाम्। युवाभ्यामिति । वज्रिण इन्द्रस्य हेतयोऽस्त्राण्यैश्वर्यप्रक्रियामात्रे कृतार्थाः कृतप्रयोजनाः सन्तु । ध्वंसनीयविरहात् । प्रक्रियाधिकारः परिच्छेदः प्रतिष्ठा वा । मात्रमवधारणे । कीदृशस्य । युवाभ्यां कर्तृभूताभ्यामभिनिवृत्तः कृतोऽधिकरूपत्वाप्तिर्योग: पूर्वरूपाप्रच्यवः क्षेमः। यद्वा योगो हविराद्यपूर्वलाभः क्षेमः प्रत्यवायशून्यता यस्य तादृशस्य । 'योगो ध्यानेऽपूर्वलाभे' इति धरणिः । 'हेतिः स्यादायुधज्वालासूर्यतेजःसु योषिति' इति मेदिनीकरः । तूष्णीं मौने । 'मौने च तूष्णीं तूष्णीकाम्' इत्यमरः । उपशीलितोऽवगाहितः । संनिवेशो वनम् । प्रकृतवात्। ऋषीणां गार्हस्थ्यं गृहस्थत्वम् । कर्तृ । वां युवाम् । कर्मभूतौ । उपस्नेहयति प्रीणयति । गार्हस्थ्यमिति ब्राह्मणादित्वात्ष्यञ् । गुरुगौरवादाश्रमं स्तौति-रम्यमिति । द्वयातिगं रजस्तमःशून्यम् । सत्त्वैकनिष्टमित्यर्थः । नौ आवयोः। षष्ठीद्विवचने रूपम् । उत्साहवर्धनाय जन्मान्तरीयं संस्कारं रामलक्ष्मणयोरुद्धोधयन्नाहइहेति । स पुरातनो मुनिरिहाश्रमे वनेषु तपांस्यतप्त कृतवान् । कीदृशः । कौतुकेन
१. विहस्य' इति पाठः. २. 'क्वचित्' इति पाठः. ३. 'इति यथोचितमुपविशन्ति'; 'इति यथोचितमुपविशन्ति सर्वे' इति पाठः. ४. उदमीलयन्' इति पाठः.
For Private and Personal Use Only