________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला
अपि च ।
आर्दीकृतो विनयनम्रमहेन्द्रमौलि
मन्दारदाममकरन्दरसैरिवायम् । प्रक्रान्तकुण्डलितनूतनभूतसर्ग
स्त्रैशङ्कवं चरितमद्भुतमाततान ॥ ३६॥ लक्ष्मणः-(पुरोऽवलोक्य । सहर्षम् ।)
आभिरध्वरचर्याभिः श्रौतमर्थ कृतार्थयन् । अये कुलपतिः सोऽयमित एवाभिवर्तते ॥ ३७॥
(ततः प्रविशति दीक्षितवेषो विश्वामित्रः।) रामः-(निर्वर्ण्य । सबहुमानम् ।) वत्स लक्ष्मण, पश्य ।
कर्मणः श्रूयमाणस्य व्यञ्जनैरधिकोज्ज्वलाम् ।
तपस्तेजोमयीं लक्ष्मीमद्य पुष्णाति मे गुरुः ।। ३८ ॥ व कालमयं वर्तमानकालमिव ध्यानेन पश्यतीत्यर्थः । अवीविशदिति 'विश प्रवेशने । ण्यन्ताल्लुङ् । [प्रज्ञातेति ।] ब्रह्माध्यात्मतत्त्वस्वरूपम् । यद्वा चिदानन्दरूपं ज्ञानम् । स्वर्गीयैः खर्गहितैः । 'तस्मै हितम्' इति छः । यद्वा वर्गफलकैः । खेलति क्रीडति । समयो व्यवहारः कालो वा । आचारः क्रिया प्रचारो वा । प्रक्रान्तैरारब्धैः । सप्ततन्तुभिर्यज्ञैः । ज्ञातब्रह्मतत्त्वस्यापि विश्वामित्रस्य यद्गृहस्थाचरणीययज्ञाचरणं तत्कीडैवेति भावः । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । 'तत्त्वज्ञानित्वे चास्य सृष्टयादिकारित्वं प्रमाणमाह-आर्द्राकृत इति । एष विश्वामित्रस्त्रैशङ्कवं त्रिशङ्कुसंबन्ध्यद्भुतमाश्चर्यकारि चरितमाततान विस्तारयामास । विनयेन नम्रो यो महेन्द्रस्तस्य मौलौ यन्मन्दारदाम देवतरुपुरूपमाला तस्य मकरन्दरसैरिवाीकृतः । इवशब्द उत्प्रेक्षायाम्। दयया स्तिमित इत्यर्थः। अत एव प्रक्रान्त उपक्रान्तः । कुण्डलितः संकोचितः । अनयोः कर्मधारयः । नूतनभूतस! लोकसृष्टियेन तादृशः । 'पश्चैते देवतरवो मन्दारः पारिजातकः' इत्यमरः । 'मकरन्दः पुष्परसः' इत्यपि । त्रैशङ्कवमित्यण् । 'ओर्गुणः' । 'नासूचितं विशेत्पात्रम्' इत्यादिभरतवाक्याद्विश्वामित्रप्रवेशं सूचयितुमाह-आभिरिति । श्रोतं वेदोक्तमर्थमभिधेयं यागादि कृतार्थयन् । सत्यापयन्नित्यर्थः । शिष्टाचारो हि तन्न प्रमाणमित्याशयः। अकस्मादनाकलिताकलने अयेशब्दः । इत एव । अत्रैव तिष्ठतीत्यर्थः । यज्ञादौ कृतसंकल्पादिनियमो दीक्षितः । पश्य । विश्वामित्रमिति शेषः। विश्वामित्रमतिमृदुमूर्तिमालोक्य लक्ष्मणस्यावज्ञा मा जायतामिति तस्य स्तुतिमाह-कर्मण इति । मे मम गुरुर्विश्वा
१. 'सकौतुकम्' इति पाठः. २. 'खाभिः' इति पाठः,
For Private and Personal Use Only