________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
अनर्धराघवम् । रामः-(सरोषाहंकारम् ।) वत्स, यद्येवं स्यात्
कल्पान्तकर्कशकृतान्तभयंकरं मे
निष्प्रनतः क्रतुविघातकृताममीषाम् । नीराक्षसां वसुमतीमपि कर्तुमद्य
पुण्याहमङ्गलमिदं धनुरांदधातु ॥ ३३ ॥ लक्ष्मण:-(विहस्य ।) कथं रजनीचरचक्रविनाशोत्कण्ठाविसंस्थुलमार्यहृदयमदीर्घदर्शिनं भैगवन्तं कौशिकमपि संभावयति ।
अविद्यावीजविध्वंसादयमार्षेण चक्षुषा ।
कालौ भूतभविष्यन्तौ वर्तमानमवीविशत् ॥ ३४ ॥ रामः-किर्णीच्यते तत्रभवान्विश्वामित्रः ।
प्रज्ञातब्रह्मतत्त्वोऽपि स्वर्गीयैरेष खेलति ।
गृहस्थसमयाचारप्रक्रान्तैः सप्ततन्तुभिः ।। ३५ ॥ प्रशास्त्याज्ञापयति । लक्ष्मणस्य रक्षःपरापतनभीतिमाशय तामपनेतुं रक्षोवधे खप्रागल्भ्यमाह-कल्पान्तति । ममेदं धनुर्वसुमतीमपि नीराक्षसां रक्षःशून्यां निर्गताः पलायिता राक्षसा यस्यां तादृशीं कर्तुम् । पुण्यं च तदहश्चेति कर्मधारयः । पुण्याहं रक्षोमरणदिनम् । 'पुण्यसुदिनाभ्यामहः' इति नपुंसकत्वम् । तत्र मङ्गलं शुभकर्मादधातु । न केवलं लङ्काम् , अपि तु भूमिमात्रमपीत्यपेरर्थः । यद्वा पुण्याहं जन्मदिनसुखरात्रिकात्सवदिनं तत्र मङ्गलं यत्क्रियते तत्पुण्याहमङ्गलपदेनोच्यते । यस्य च तत्क्रियते स सततमभ्युदयी भवति । तथेदमपि मम धनुर्भवत्विति भावः । मम कीदृशस्य । ऋतुविधातकृताममीषां राक्षसानां निष्प्रनतो यज्ञनाशकान्मारयतः । अमीषामित्यत्र 'जासिनिप्रहण-' इत्यादिना कर्मणि षष्ठी । धनुः कीदृशम् । कल्पान्ते प्रलये यः कर्कशः कठिनः कृतान्तो यमस्तद्वद्भयंकरं भीषणम् । 'मेघर्तिभयेषु कृत्रः' इति खच् । 'कृतान्तो यमुनाभ्राता शमनो यमराज्यमः' इत्यमरः । यद्येवं स्यादिति रामभद्रवचनं तर्कमुखं विभाव्याह-कथमिति । चक्रं समूहः । विसंस्थुलं विपर्यस्तम् । अदीर्घदर्शिनमपण्डितम् । संभावयति बोधयति । 'दूरदर्शी दीर्घदर्शी धीरः' इत्यमरः । तत्त्वज्ञानित्वमस्य स्थापयतिअविद्येति । अयं विश्वामित्रोऽविद्याया मिथ्याज्ञानस्य बीजं कारणं पापं तस्याभावादार्षण ध्यानरूपेण चक्षुषा। यद्वा वेदजनिताध्यात्मज्ञानेन । 'ऋषिदे मुनौ तत्त्वे' इति विश्वः। भूतभविष्यन्तावतीतानागतौ कालौ वर्तमानं कालमवीविशत्प्रवेशितवान् । भूतं भविष्यन्तं
१. 'आदधाति' इति पाठः. २. 'चक्र' इति क्वचिन्नास्ति. ३. 'भगवन्तम्' इति क्वचिन्नास्ति. ४. 'वत्स, किमुच्यते तत्रभवान्कौशिकः । तथा हि' इति पाठः.
अन०८
For Private and Personal Use Only