________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
रामः-एवमस्तु ।
(इति परिक्रम्य नाट्येनोपविशतः ।) लक्ष्मणः-(पार्श्वतोऽवलोक्य ।) आर्य, मध्येव्योम क्रीडयित्वा मयूखान्भानोर्बिम्बे लम्बमाने क्रमेण । खैरं खैरं मूलतः पादपानां पश्य च्छायाः कश्चिदाकर्षतीव ॥ ३१ ॥
रामः--(समन्तादवलोक्य ।) वत्स, मध्यंदिनमतिक्रान्तमिति दिनमप्यतिक्रान्तमेव । पैश्य ।
गगनशिखरमुदयाद्रेरधिरूढाः कष्टमर्करथहरयः ।
अस्तमहीधरमधुना झटिति सुखेनावरोहन्ति ॥ ३२ ॥ लक्ष्मणः-आर्य, नूनमद्य रक्षांसि परापतिप्यन्ति । यदयमध्वरवेदिकासंनिधानं ते शुनःशेफमुखेन भगवानुपाध्यायः प्रशास्ति । ध्याह्नः । 'राजाहःसखिभ्यष्टच्' । 'अहोऽह एतेभ्यः' इत्यहादेशः । मध्याह्ने शून्या इति सप्तमीसमासः । न्यग्रोधो क्टः । न्यग्रोधच्छायैव मण्डप इति रूपकम् । यद्वा छायायां मण्डपः । 'न्यग्रोधो बहुपाद्वटः' इत्यमरः । चिरविलम्बेन कार्यातिपातमाशयापरिश्रमेण कौशिकसकाशमाश्रयितुमुचितोऽयं समय इत्यर्थादाह-मध्येव्योमेति । व्योम्नो मध्ये मध्येव्योम । 'पारे मध्ये षष्ठ्या वा' इत्यव्ययीभावः । मयूखान्किरणान्कीडयित्वा । प्रसारयित्वेति यावत् । भानोः सूर्यस्य विम्बे मण्डले क्रमेण लम्बमाने सति खैरं स्वैरं मन्दमन्दं पादपानां वृक्षाणां मूलतो मूलात्कश्चिच्छाया आकर्षतीव । यथा कोऽप्याकर्षति तथा छाया वर्धत इत्यर्थः । पश्येत्यत्र वाक्यार्थस्य कर्मता। 'छाया स्यादातपाभावे' इति विश्वः । दिनं मध्यं मध्यावच्छिन्नम् । यद्वा मध्यंदिनमित्यत्र मध्यशब्दान्मदिन्प्रत्यय
औणादिकः । दिनमप्यतिक्रान्तमेव । मध्यंदिनातिक्रमणस्य बहुसमयसाध्यत्वात्तस्मिन्नतिक्रान्ते दिनमप्यतिक्रान्तमिति भावः । लक्ष्मणतात्पर्यमवगम्यार्थात्तत्रानुमतिमाह-गगनेति । अर्करथहरयः सूर्यस्यन्दनाश्वा उदयपर्वताद्गगनशिखरं शिखराकारं गगनम् । यद्वा गगनशब्देनात्युच्चप्रदेश उच्यते । तस्य शिखरमग्रमधिरूढाः । कष्टं यथा स्यादेवम् । ऊर्चगमनस्याशक्यसाध्यत्वात् । अधुना संप्रति झटिति शीघ्रमस्तमहीधरमस्तपर्वतं सुखेनावरोहन्ति । अधोगमनस्य सुशकत्वात् । क्वचित् 'झगिति' इति पाठः । तत्रापि द्रुतमित्यर्थः । 'द्राग्झटित्य जसाहाय साङ्मङ्घ सपदि द्रुतम्' इत्यमरः । 'हरिश्चन्द्रार्कवाताश्व-' इत्यादि विश्वः । 'शिखरोऽस्त्री शैलशृङ्गे द्रुमाग्रे शकलाग्रयोः' इति मेदिनीकरः । परापतिष्यन्त्यागमिष्यन्ति । उपाध्यायः कौशिकः । १. 'तथाहि' इति पाठः. २. 'लक्ष्मण:-(सहर्षम् ।)' इति पाठः.
For Private and Personal Use Only