________________
Shri Mahavir Jain Aradhana Kendra
२ अङ्कः]
www.kobatirth.org
अनर्घराघवम् ।
Acharya Shri Kailassagarsuri Gyanmandir
तैर्मेधाजननत्रतप्रणयिभिर्व्यूहैर्बहूनामियं
सिक्ता नित्यवसन्तविभ्रमवती रम्या पलाशावली । एतस्यां हरिणारिपाणिजसृणिश्रेणिश्रियः कोरका
गोपायन्ति तपोवनं वनकरिक्रीडाकराकर्षणात् ॥ २७ ॥ ( नेपथ्ये )
रामभद्र, कियच्चिरमवलोकनेन कृतार्थीक्रियन्ते तपोवनविहारभूमयः । संप्रति ह
परिणमयति ज्योतिर्वृत्त्या यजूंषि रुचां पतिः
किमपि शेमिनः सावित्राख्यं रहस्यमुपासते ।
गुरुरयमनुष्ठास्यन्माध्यंदिनीं सवनक्रिया
मिह मखविधौ नेदीयांसं भवन्तमपेक्षते ॥ २८ ॥
-
७७
For Private and Personal Use Only
कर्मता केचित्तु अनुकौशिकीतीरमिति क्रियाविशेषणम् । यद्वानुशब्देन सह कौशिकी - तीरपदस्य ‘अनुर्यत्समया' इत्यव्ययीभावे सप्तमी । ' तृतीयासप्तम्योर्बहुलम्' इत्यम् । इदानीमचेतनानामप्यनिष्टजनकाद्रक्षकत्वेन च्छलतो मुनीनां तपःप्रभावमाह — तैरिति । इयं पलाशावली पलाशवृक्षश्रेणी रम्या | अस्तीति शेषः । कीदृशी । बहूनां मुनिशि शूनां व्यूहैः समूहैः सिक्ता । अत एव नित्यं सर्वदा वसन्तस्य ऋतुविशेषस्य विभ्रमो विलासो विशिष्टो वा भ्रमस्तद्वती । किमर्थ तैः पलाशावली सिच्यत इत्यत आहमेवेति । 'धीर्धारणावती मेधा' इत्यमरः । मेधाजननाख्यं व्रतं छन्दोगब्रह्मचारिभिः क्रियते । तत्र जलेन पलाशमूलसेचनं क्रियत इति समाचारः । एतस्यां पलाशावल्यां कोरकाः कलिका वनकरिणां वनहस्तिनां क्रीडया यत्करेण स्थूलहस्तेन कर्षणं तस्मात्तपोवनं गोपायन्ति रक्षयन्ति । 'गुपू रक्षणे' 'गुपूधूप - ' इत्यादिनायः । रक्षणकारणं कलिकाविशेषणमाह — हरिणारेः सिंहस्य ये पाणिजा नखास्त एव सृणिश्रेण्यङ्कुशपतिस्तद्वच्छ्रीः शोभा यासां तास्तथा । 'व्यूहस्तु बलविन्यासे निर्मले वृन्दतर्कयोः' इति धरणिः । 'अङ्कुशोsस्त्री सृणिः स्त्रियाम्' इत्यमरः । 'कलिका कोरकः पुमान्' इति च । प्रस्तुतयज्ञरक्षामपहायाप्रस्तुतेऽत्यन्तासक्तिं रामभद्रस्याशक्य रसान्तराय शुनःशेफः प्रेरयति - नेपथ्य इत्यादि । अयमेव चूडिकानामालंकारः । तथा च भरतः -' - 'अन्तर्जवनिकासंस्थैः सूतमागधवन्दिभिः । अर्थोपक्षेपणं यद्धि क्रियते सा तु चूडिका ॥' इति । कृतार्थः कृतप्रयोजनः । विहारः क्रीडा । परीत्यादि । रुचां पतिः सूर्यो ज्योतिर्वृत्त्या ज्योतीरूपतया यजूंषि परिणमयति । परिणतानि करोतीत्यर्थः । मध्याह्ने यजुर्मयत्वादा
१. ' यमिनः' इतिः. २. 'अधिष्ठास्यन्' इति पाठ:.