SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । रामः-(अश्रुतमभिनीय सानुरागम् ।) वैरांस्त्रीनभिषुण्वते विदधते वन्यैः शरीरस्थिती रैणेय्यां त्वचि संविशन्ति वसते चापि त्वचस्तारवीः । तत्पश्यन्ति च धाम नाभिपततो यच्चार्मणे चक्षुषी धन्यानां विरजस्तमा भगवती चर्येयमाह्लादते ॥ २९ ॥ (नेपथ्ये पुनस्तदेव पठ्यते ।) रामः--(श्रुत्वा ससंभ्रममूर्ध्वमवलोक्य च ।) कथं गँगनमध्यमध्यारूढो निदाघदीधितिः । वत्स, तदेहि । यज्ञवाटमधिष्ठाय क्रमेण कृताह्निकस्य भभगवतः कौशिकस्य प्रत्यनन्तरीभवावः । (इति परिकामतः ।) दित्यस्य । 'ऋङ्मयः प्रातरादिलो मध्याह्ने च यजुर्मयः । सायं साममयश्चेति त्रयीमय उदाहृतः ॥' इति पुराणम् । अत एवाग्रे वक्ष्यति—'एतत्रयीमयं ज्योतिरादित्याख्यं निमज्जति' इति । शमिनो मुनयः । सावित्राख्यं सावित्री मध्याह्नसंध्या तस्याः संबन्धि सावित्रं तेन तदाख्या यस्य तत् । यद्वा सवितृदेवताकं सावित्रनामधेयं वा रहस्यं तत्त्वम् । मन्त्रमिति यावत् । उपासते । सेवन्त इत्यर्थः । अयं गुरुर्विश्वामित्रो मखविधौ यज्ञविधौ मध्यंदिनभवां सवनक्रियां स्नानव्यापारमनुष्ठास्यन् । अनुष्टानं कर्तुमिति यावत् । तुमर्थ लट् । भवन्तं रामभद्रं नेदीयांसं निकटस्थमपेक्षते । 'सवनं त्वध्वरे स्नाने' इति विश्वः । 'रहस्तत्त्वे रसे गुह्ये' इति च । नेदीयांसमिति 'अन्तिकबाढयोर्नेदसाधौ' इति नेदादेशः । आश्रमवैचित्र्यदर्शनासक्तमनाः पुनराश्रममेवोपवर्णयति--वारानिति । धन्यानामियं विरजस्तमा विगतरजस्तमोगुणा। सात्त्विकीत्यर्थात् । चर्या कृतिराहादते। सुखयतीत्यर्थः । हादी सुखे च' । यद्वापथस्थितिश्चर्या । 'चर्या त्वीर्यापथस्थितिः' इत्यमरः । ईर्यते गुरोः शास्त्रस्योपासनया ज्ञायत ईर्या । तस्याः पन्था उपाय इर्यापथः । तत्र ध्यानधारणायुपाये या स्थितिरवस्थानं परिव्राजकादीनां सा चर्याशब्दवाच्या । चर्यास्वरूपमाह-बारानिति । एते । धन्या इत्यर्थात् । त्रीन्वारान्व्याप्याभिपुण्यते खान्ति । वारानित्यत्यन्तसंयोगे द्वितीया । वन्यैः फलमूलादिभिः शरीरस्थितीः प्राणरक्षा विदधते कुर्वन्ति । ऐणेय्यामेणी हरिणीभेदस्तद्विकारभूतायां त्वचि संविशन्ति शेरते। तारवीस्तरुविकारास्त्वचो वसते परिदधति । यच्च धाम तेजश्चार्मणे चर्ममये चक्षुषी नाभिपततो न गच्छतस्तद्धाम पश्यन्ति । समाधिखरूपचक्षुषा परमात्मस्वरूपं तेजः पश्यन्तीत्यर्थः । १. 'अश्रुतिम्' इति पाठः. २. 'त्रीन्वारान्' इति पाठः. ३. 'त्वचं तारवीम्' इति पाठः. ४. 'विरजन्तमा' इति पाठः. ५. 'तथैव' इति पाट:. ६. केषुचित्पुस्तकेयु चकारो नास्ति. ७. 'गगनमध्यारूढः'; 'गगनमध्यमारूढः' इति पाट:. ८. 'वत्स' इति क्वचिन्नास्ति. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy