________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
रामः-वत्स, साधु दृष्टम् ।
आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा ।
केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते ॥ २५ ॥ तदेहि । भगवती कौशिकीमालोकयन्तौ मुहूर्तमात्रमात्मानं पुनीवहे । (परिक्रम्यावलोक्य च ।) क्वचित्सांकामिकोऽपि विशेषो नैसर्गिकमतिशेते । तथा हि।
जडवच्छस्वादुप्रकृतिरुपहूतेन्द्रियगणो
गुणो यद्यप्यासामयमयुतसिद्धो विजयते । तथाप्युत्कर्षाय स्फुरति सरितामाश्रमसदा
मिदानी वानीरद्रुमकुसुमजन्मा परिमलः ॥ २६ ॥ लक्ष्मणः-आर्य, पुरस्तादनुकौशिकीतीरमालोकय । त्रिमा सरित्' इत्यमरः । रामोऽतिरम्यत्वेन लक्ष्मणवचनमनुवदति-आलवालेति । अम्बु पानीयं सारणीषु स्वल्पनदीषु । यद्वा सारण्यो जलप्रवाहिकास्तासु । पुनदृश्यते । कीदृशम् । केरली केरलदेशजाता स्त्री तस्याश्चिकुरभङ्गिः केशकुटिलता तद्वद्भङ्गुरं स्वतः कुटिलम् । केरलदेशस्त्रीणां चिकुराः कुटिला भवन्तीति प्रसिद्धिः। भूरुहां वृक्षाणामालवालवलयेषु वृक्षमूलजलधारकसमूहेष्वन्तरान्तरा मध्ये मध्ये मांसलं प्रचुरम् । सिध्मादित्वाच् । स्तिमितं निश्चलं चेति कर्मधारयः। 'स्वल्पनद्यां च सारणी' इति विश्वः । 'आलवाल: स्थितो मूले वृक्षस्य जलधारके' इति च । कौशिकी नदीभेदम् । पुनीवहे पवित्रीकुर्वः । सांक्रामिक आगन्तुकः । नैसर्गिकं स्वाभाविकम् । उभयोरप्यध्यात्मादिस्वाहा। अतिशेतेऽभिभवति । सांक्रामिण नैसर्गिकस्याभिभवोपपादनार्थ नैसर्गिक रूपमाह-जडेति । आसां सरितां नदीनामयुत सिद्धः पृथक्सिद्धः । 'यु मिश्रणे'। युतं मिलितं न युतमयुतम् । यद्वायुतसिद्धः स्वाभाविको गुणो यद्यपि विजयते । प्रत्यक्षविषयीभवतीत्यर्थः । कीदृशः । जडखच्छस्वादुप्रकृतिभूतः खभावभूतो यस्य गुणस्य स तथा। तेन जलत्वं स्वच्छत्वं खादुत्वं च लभ्यते। अत एवोपहूत आहूतः। आकृष्ट इति यावत् । इन्द्रियगणो येन स तथा। इदानीमुपपाद्यमाह-तथापि वेतसवृक्षपुष्पजन्मा परिमलो गन्ध आश्रमसदामाश्रमाश्रितानामुत्कर्षाय प्रकर्षाय स्फुरति । आश्रमसदामिति 'सत्सूद्विष-' इति विप् । 'शीतवानीरवञ्जुलाः' इत्यमरः । 'विमर्दोत्थे परिमलो गन्धमात्रेऽपि दृश्यते' इति विश्वः । अनु समीपे । अवलोकनक्रियापेक्षसमुदायवाक्यार्थस्यात्र
१. 'दृष्टम् । अहो' इति पाठः. २. 'कौशिकीभगवतीमवलोकयन्तौ मुहूर्तम्' इति पाठः. ३. 'पुनीमहे' इति पाठः. ४. 'नैसर्गिकमधिकम्' इति पाठः. ५. 'पश्य' इति पाठः. ६. 'श्रयति' इति पाठः.
For Private and Personal Use Only