________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः ]
अनर्घराघवम् । लक्ष्मण:-अहो पशूनामप्यपत्यवात्सल्यम् । अहो शिशूनामपि सत्कर्मताच्छील्यम् । रामः- (अन्यतोऽवलोक्य ।)
मुनिविनियोगविलूनप्ररूढमृदुशाद्वलानि बहीषि । गोकर्णतर्णकोऽयं त!त्युपकण्ठकच्छेषु ॥ २३ ॥
(ईंति परिकामतः ।) लक्ष्मण:-आर्य, इयमेभिरालवालैः पदे पदे ग्रन्थिलासु कुल्यासु । तीव्रतमा जलवेणिः प्रवहति विश्रम्य विश्रम्य ॥ २४ ॥
लीवलयत्वमुचितम् । 'समन्ततस्तु परितः सर्वतो विष्वगिलपि' इत्यमरः । वात्सल्यं प्रेमा। ताच्छील्यं तत्स्वभावत्वम् । मृगाणामपि द्वेषिविषयकात्यन्तनिर्भरत्वं दर्शयन्वैचित्र्यान्तरमाह-मुनीति । अयं गोकर्णतर्णको हरिणविशेषबालक उपकण्ठकच्छेषु कच्छसमीपेषु वहींषि कुशांस्तर्णोति खादति । 'तृणु अदने' उभयपदी । पक्षे गुणः । उपकण्ठः समीपम् । अतिगर्तजलबहुलं स्थानं कच्छः। नदीतटं वा । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । 'कच्छो नदीतटेऽनूपे' इति विश्वः। कीदृशानि । मुनिभिविनियोगार्थ क्रियानिमित्तं विलूनान्युत्पाटितानि ततः प्ररूढान्युत्पन्नानि शादलानि हरितानि येषां तादृशानि । यद्वा मुनिविनियोगविलूनानि, प्ररूढमृदुशालानि चति कर्मधारयः । 'शादो जम्बालशप्पयोः' इत्यमरः । 'शष्पं बालतृणम्' इति च । शादोऽस्यास्तीति 'नडशादा द्डुलच्'। 'शाद्वल: शादहरिते' इत्यमरः। न च शादुलशब्देन बर्हिःशव्देन च तृणविशेषाभिधानात्पौनरुक्त्यापत्तिरिति वाच्यम् । शादुलशब्दस्यात्र लक्षणया हरितमात्रवृत्तित्वात् । 'गोकर्णोऽश्वतरेऽपि स्यान्मृगसर्प विशेषयोः' इति मेदिनीकरः। 'तर्णको बालकः सभौ' इत्यमरः । चेतनानां प्रशान्तस्वभावत्वमुक्त्वाचेतनानामप्याहइयमिति । इयं तीव्रतमातिवेगवती जलवणिर्वेण्याकारं जलम् । सूक्ष्मत्वात्कुटिलत्वाच वेण्या रूपणम् । यद्वा जलपूर्णा वेणि: प्रवाहो जलवेणिः । 'नद्यादेरन्तरे वेणिः केशस्यापि च बन्धने' इति विश्वः। कुल्यासु कृत्रिमनदीपु विश्रम्य विधम्य पुनः पुनर्विश्राम कृत्वा प्रवहति निःसरति । किंभूतासु । एभिरालवालक्षमूले जलधारकैः ‘थल' इति प्रसिद्धः पदे पदे स्थाने स्थान सकलतरूणां जलप्राप्त्यर्थे ग्रन्थिलामु पर्ववतीषु । विषमाखित्यर्थः । सिध्मादित्वालच् । प्रबहतीत्यत्र 'प्राद्वहः' इति परस्मैपदम् । 'कुल्या स्यात्कृ
१. 'लक्ष्मण:-(दृष्ट्वा)' इति पाठः. २. 'प्रसव' इति पाठः. ३. 'रामः' इति केयुचित्पुस्तकेषु नास्ति. ४. 'इत्युभौ' इति पाटः. ५. 'तीव्रतरा जलवेणी' इति पाठः,
For Private and Personal Use Only