________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
काव्यमाला।
रामः-(परिक्रामन्सकौतुकानुरागम् ।) वत्स, इतस्तावत् ।
आर्द्रप्रसूतिरियमङ्गनयज्ञवेदि
र्नेदिष्ठमेव हरिणी तृणुते तृणं च । वत्सीयतापसकुमारकरोपनीत
नीवारनिर्वृतमपत्यमवेक्षते च ॥ २१ ॥ अपि च ।
विष्वक्तपोधनकुमारसमय॑माण__ श्यामाकतण्डुलहृतां च पिपीलिकानाम् । श्रेणीभिराश्रमपथाः प्रथमानचित्र
पत्रावलीवलयिनो मुदमुद्वहन्ति ॥ २२ ॥ पत्नीभिरिति यावत् । प्रकृतत्वान्मुनीनामेव । अग्निशरणेष्वग्निगृहेषूदस्यमानमुत्क्षिप्यमाणम् । 'असु क्षेपणे' । कीदृशीभिः । बल्यर्थ ये तण्डुलास्तेषां विलोपेनाहरणेन । भक्षणेनेति यावत् । कदर्थिताभिर्दुःखिताभिः । वालेयेत्यत्र 'छदिरुपधिबलेढञ्' । 'बालेयो गर्दभे पुंसि मृदौ बलिहिते त्रिषु' इति विश्वः । 'शरणं गृहरक्षित्रोः' इति च । 'द्वितीया सहधर्मिणी' इत्यमरः । न केवलमनयोवृद्धत्वे प्रशान्तखभावत्वम् , किं तु बालस्यातिचञ्चलस्वभावस्यापि प्रशान्तत्वमित्युपपादयन्वैचित्र्यान्तरमाह-आद्रेत्यादि । इयं हरिणी तृणं तृणुते खादति च अपत्यमवेक्षते परिपालयति च । चकारद्वयं तुल्यकालताद्योतनार्थम् । अपत्यावेक्षणप्रयोजकं रूपमाह-आर्द्रप्रसूतिरिति । अभिनवप्रसूतेत्यर्थः। कीदृशं तृणम् । अङ्गने या यज्ञवेदिस्तस्या नेदिष्टमतिनिकटस्थम् । कीदृशमपत्यम् । वत्सीया वत्सेभ्यो हिता ये तापसकुमारास्तैः करैरुपनीता ये नीवाराः 'तुरी' इति प्रसिद्धास्तैर्निर्वृतं संतुष्टम् । तृणुत इति 'तृणु अदने' तनादिरुभयपदी। 'संज्ञापूर्वको विधिरनित्यः' इति गुणाभावः । व्याकरणान्तरे तु विकल्प एव गुणे । नेदिष्टमिति 'अन्तिकबाढयोनेंदसाधौ' इतीष्टनि अन्तिकस्य नेदादेशः । 'नेदिष्ठमन्तिकतमम्' इत्यमरः । वत्सीयेत्यत्र 'तस्मै हितम्' इति छः । विप्वगिति । आश्रमपथा आश्रममार्गा मुदं हर्षमुद्वहन्तीति सं. वन्धः । आश्रमाणां पन्था आश्रमपथः । 'ऋक्पू:-' इत्यः । कीदृशाः । पिपीलिकानां श्रेणीभिः पतिभिःप्रथमाना ख्याता या चित्रा पत्रावली पत्रलेखा सैव वलयो यत्र तादृशाः। कीदृशीनाम् । विष्वक्सर्वत्र तपोधनकुमारैर्ये समर्प्यमाणा दीयमानाः श्यामाकानां 'सामा' इति प्रसिद्धानां तण्डुलास्तदपहारिकाणाम् । 'क्विप्च' इति क्विप् । श्यामाकतण्डुलस्यातिअतस्वभावत्वात्पिपीलिकानां श्यामत्वात्कियतीनां च तासामीषलोहितत्वाचित्ररूपपत्राव
१. 'इदं तावत्' इति पाठः, २. 'तृणानि' इति पाठः, ३. 'अपेक्षते' इति पाठः,
For Private and Personal Use Only