________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः] अनर्घराघवम् ।
७३ पूरयित्वेव सर्वाङ्गमतिरिक्ताः शिराततीः ।
जटारूपेण बिभ्राणैः शिरोभिर्गहनं सदः ॥ १८ ॥ किं च ।
तपःकृशतरैरङ्गैः स्रष्टुमाकारितैरिव । सायं प्रातरमी पुण्यमग्निहोत्रं प्रेयुञ्जते ॥ १९ ॥
(इति परिकामतः ।) लक्ष्मणः-(सहासम् ।) आर्य, रमणीयमितो वर्तते ।
बालेयतण्डुलविलोपेकदर्थिताभि
रेताभिरग्निशरणेषु सर्मिणीभिः । तंत्रासहेतुमपि दण्डमुदस्यमान
माघ्रातुमिच्छति मृगे मुनयो हसन्ति ॥ २० ॥ रोति-' इति णिच् । समवायः समूहः । इदानीमतिशान्तरूपं वैचित्र्यमाह-इदममीषामिति । अमीषामृषीणामिदं सदः सभा शिरोभिर्मस्तकैर्गहनं विषमम् । अस्तीति शेषः । कीदृशैः । जटारूपेण जटाव्याजेन शिराततीः शिरासमूहान्बिभ्राणैर्धारयद्भिः । ननु शिरायाः शरीराभ्यन्तरस्थायित्वात्कथं बहिर्भाव इत्यत आह–सर्वाङ्गं सर्वावयवं पूरयित्वातिरिक्ता अवशिष्टा बहिर्भूताः । ननु तथाप्यत्यन्तासंभवेन बाधितोऽयमर्थः 'व. हिरनुष्णः' इतिवदित्यत आह-इवेति । इवशब्द उत्प्रेक्षायाम् । यद्वा इवशब्दो भिन्नक्रमः 'ततीः' इत्यस्यानन्तरं द्रष्टव्यः । नैता जटाः किं तु शिराततीरिवेति भावः । यद्वा इदं सदः सभास्थानं शिरोभिर्गहनं वनमिव । शिरास्वरूपास्ततीलता बिभ्राणैः । अन्यदपि वनं लतां धत्त इति ध्वनिः । तत्किमेषामाकारः स्वाभाविक एवेत्याह-किं चेत्यादि। अमी मुनयः सायं प्रातश्च पुण्यं पवित्रमग्निहोत्रं यागविशेष प्रयुञ्जते कुर्वते । अझैः शरीरलक्षिताः । 'इत्थंभूतलक्षणे' इति तृतीया । कीदृशैः । तपसा कृशतभैः । अत एव स्रष्टुमाकारितैरिव । इवशब्दो भिन्नक्रमः । स्रष्टुमिवाकारितैः। उत्कीर्णैरित्येके । अन्यत्रापि चित्रलिखनादौ प्रथमं रेखा क्रियते, ततो वर्णिकाभिः पूर्यत इति ध्वनिः । एते. ऽप्यस्थिपुञ्जरूपाः, अतः सृष्ट्यर्थे किमानीता इति भावः । न केवलमृषीणामेव प्रशान्तस्वभावत्वम् , किं तु तत्पत्नीनामपीति प्रकटयन्वैचित्र्यान्तरं दर्शयति-तदित्यादिना मुनयो हसन्तीत्यनेन । मृगे हरिण तत्रासहेतुमपि तस्य मृगस्य भयकारणमपि दण्डमाघ्रातुमिच्छति सति मुनयो हसन्तीति संबन्धः । मृगादीनां दण्डादिदर्शनाद्भयसद्भाव इति तावद्वस्तुगतिः । तत्रान्यथादर्शनादतिकौतुकेन हासः। कीदृशम् । सधर्मिणीभिर्द्वितीयाभिः।
१. 'उपासते' इति पाट:. २. 'विलेप' इति पाठः, ३. 'उत्रास' इति पाठः.
For Private and Personal Use Only