________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(अन्यतश्च दृष्ट्वा ।) आर्य,
पश्यैते पशुबन्धवेदिवलयैरौदुम्बरीदन्तुरै
नित्यव्यञ्जितगृह्यतन्त्रविधयो रम्या गृहस्थाश्रमाः । यत्रामी गृहमेधिनः प्रचलितखाराज्यसिंहासना
वैतानेषु कृपीटयोनिषु पुरोडाशं वषट्कुर्वते ॥ १७ ॥ रामः-(सहर्षस्मितम् ।) वत्स, इतोऽपि तावत्कृतार्थयावश्चक्षुषी । प्रसन्नपावनोऽयमृषीणां समवायः । इदममीषाम् प्रचक्षते' इति स्मृतिः । 'तीर्थ शास्त्रे पुरे क्षेत्रे' इति विश्वः । 'दानमध्यापनं पितृतर्पणातिथिपूजनम् । होमो बलिश्च विप्राणां षट्कर्माणि दिने दिने' । यद्वा यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहाः षटकर्माणि । प्रयुञ्जत इत्यत्र 'प्रोपाभ्यां युजेः-' इति त । पश्येत्यादि । हे आर्य रामभद्र, एते पुरोवर्तिनो गृहस्थाश्रमा रम्याः । सन्तीति शेषः। तान्पश्येत्यन्वयः । तानित्यध्याहार्यम् । यद्वा वाक्यार्थस्यैव कर्मत्वम् । तत्र वाक्यस्याप्रतिपादकत्वान्न द्वितीया । कीदृशाः । पशुबन्धो यागविशष स्तस्य वेदिः परिष्कृता भूमिस्तस्या वलयैर्मण्डलैः करणभूतैर्नित्यं व्यञ्जितो व्यक्तीकृतो गृह्यतन्त्रविधिPह्यसिद्धान्तविधानं येषु ते । यद्वा पशूनां वन्धो यत्र सा पशुबन्धवेदिस्तासां वलयैः समूहैः । कीदृशैः। औदुम्बर्युदुम्बरकाष्ठस्थूणा तया दन्तुरैरुनतैः । पशुबन्धयागे हि पशुर्वध्यते, औदुम्बरीस्पर्शश्च क्रियते । यदाह-'औदुम्बरी स्पृष्ट्वोद्गायेत्' इति । 'उदुम्बरस्तु देहल्यां वृक्षभेदे च' इति मेदिनीकरः । यद्वा औदुम्बरी सर्पफणाकारः काष्ठभेदः । यः खलु यज्ञस्थाने पशुबन्धार्थ निखात्य ध्रियते तेन दन्तुरैः । यत्र गृहस्थाश्रमे गृहमेधिनः सपत्नका गृहस्था वैतानेषु यज्ञसंवन्धिषु कृपीटयोनिषु वह्निषु पुरोडाशं चतुर्मुष्टिव्रीहिनिर्मिताश्वशफाकारपिष्टकम् । 'चतुरो मुटीनिर्वपति', 'अश्वशफाकारः पुरोडाशः' इति श्रुत्या तादृक्पिष्टस्य पुरोडाशपदवाच्यत्वविधानात् । वषट्कुर्वते । जुह्वतीत्यर्थः । तदुक्तम्-'स्वाहा देवह विर्दाने श्रौषट् वौषट् वषट् स्वधा' इति । प्रचलितं कम्पिते स्वाराज्यस्य स्वर्गराज्यस्य सिंहासनं येभ्यस्ते । ममैते किं स्वामिनो भवेयुरिति तेषां कम्प इति भावः । प्रचलितमिति 'चल कम्पने' णिच् । 'कम्पने चलिः' इति मित्संज्ञा । गृहमेधिन इति गृहा दाराः । 'न गृहं गृहमित्याहुर्घ हिणी गृहमुच्यते' । तेषां मेधः संगमः । 'मेधृ संगमे । स एषामस्तीति गृहमेधिनः । 'अत इनिः' । 'दन्तुरस्तून्नतदन्ते तथोनतनतेऽपि च' इति मेदिनीकरः । 'कृपीटयोनिर्बलनः' इत्यमरः । 'वेदिः परिष्कृता भूमिः' इति च । इत इति । इतोऽत्रेत्यर्थः । आद्यादित्वात्सप्तम्यां तसिः । कृतार्थयावश्चरितार्थीकुर्वः । 'तत्क
१. 'अन्यत्र च' इति पाठः. २. 'सहर्षम्' इति पाठः. ३. 'वत्स, लक्ष्मण' इति पाठः ४. 'तावत्कृतार्थय' इति पाठः.
For Private and Personal Use Only