________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
अनर्घराघवम् । अप्येष प्रतनूभवत्यतिथिभिः सोच्छासनासापुटै
रापीतो मधुपर्कपाकसुरभिः प्राग्वंशजन्मानिलः ॥ १४ ॥ लक्ष्मणः-आर्य, किलात्रैव
देवः कौस्तुभकिंजल्कनीलोत्पलमसौ हरिः । खयं किमपि तत्तेपे तपः कपटवामनः ॥ १५ ॥ इत्थमेतन्महातीर्थमध्यासीना द्विजातयः । अकुतोभयसंचाराः षट्कर्माणि प्रयुञ्जते ॥ १६ ॥
छुण्ठं सोपहासं यथा भवति तथा मेध्या विशुद्धा वत्सतरी वर्षद्वयवयस्का गौरालभ्यते मार्यते । अपूर्वो लभिर्मारणार्थः । यदाह-श्वेतं छागमालभेत' इति । 'आलम्भपिञ्जविशरघातोन्माथवधा अपि' इत्यमरः । वत्सतरीमारणं चातिथावागते विहितमेव । 'महोक्षं वा त्वत्सतरी दद्यादतिथये गृही' इति स्मृतेः । 'इदानीं मयानीतं नवतृणं भुव' इति लोकोक्त्योपहासः । सोल्लुण्ठतायां निमित्तमाह-तत्तादृगिति । तदुःखजनकं तादृग्वत्सीयं यत्तृणपूलकं तस्योपनयनमुपस्थापनं तस्य क्लेशाद्गुरुभारवहनश्रमाच्चिरद्वेषिभिः । अन्योऽपि द्वेष्युपहस्य मार्यत इति ध्वनिः । एषोऽपि प्राग्वंशे जन्म यस्य तादृशो हविर्दीहपूर्वजातोऽनिलो वायुः प्रतनूभवति । प्रकर्षेण कृशो भवतीत्यर्थः । मधुपर्कपाकेन हूयमानमधुपर्कस्य पाकेन सुरभिरत एवातिथिभिः सोच्छासाः सप्रकाशा ये नासापुटास्तैरासमन्ताद्भावेन पोतः । अत एव कृशतरोऽपि । 'प्राग्वंशः प्राग्यविर्गेहात्' इत्यमरः । 'गन्धवाहानिलाशुगाः' इति च । 'मेध्यं पूते मेधसे च' इति धरणिः । अत्रैव सिद्धाश्रम एव । किल प्रसिद्धौ । न केवलमनेन प्रकारेणाश्रमपदस्य वैचित्र्यम् , किं त्वतिपावित्र्यमप्यस्तीत्याह-देव इति । असौ हरिवो नारायणोऽत्रैव स्वयमात्मना किमपि तदनिर्वचनीयं तपस्तेपे तप्तवान् । अन्ये तपस्विनो भगवदाराधनार्थमेव तपः कुर्वते । अयं तु भगवान्किमिति तपः करोतीत्यनिर्वचनीयत्वं तपसः । कीदृशः । कौस्तुभो मणिभेदः स एव किंजल्क: केसरो यस्य तन्नीलोत्पलमिव नीलोत्पलम् । ततश्च द्वयोर्विशेषणसमासः । इह भगवतोऽतिश्यामत्वान्नीलोत्पलत्वेन रूपणम् । कौस्तुभस्य भगवतो हृन्मध्यस्थितत्वाद्दीप्तिमत्त्वाच किंजल्केन रूपकम् । रूपकोऽयमलंकारः । कपटवामनो मायावामनमूर्तिः । हरिणा त्रिविक्रमेण किल बलिच्छलनार्थ वामनरूपं कृत्वा तत्र सिद्धाश्रमे तपः कृतम्-इति पुराणम् । 'किंजल्कः केसरोऽस्त्रियाम्' इत्यमरः । 'खों हखश्च वामनः' इति च । इत्थमिति । द्विजातयो ब्राह्मणाः षटकर्माणि प्रयुञ्जते । कुर्वत इत्यर्थः । अकुतोभयेन संचारो यषां ते । असुब्विभक्तिकत्वात्तसिलोऽलुक् । इत्थमनेन वामनतपस्याधिकरणत्वेन यदेतन्महातीर्थ तदध्यासीनाः । महातीर्थमित्यत्र 'आन्महत:-' इत्यादिनात्त्वम् । तीर्थस्य च महत्त्वं महाजनपरिग्रहेण । 'यदध्यासितं महद्भिस्तद्धि तीर्थ
For Private and Personal Use Only