________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला। पशुमेदः-अहं वि खत्तिअकुमाराणं दंसणे उक्कण्ठिदोमि । ता कहेहि कहिं पेक्खामि ।
शुन शेफ:-(विहस्य ।) नन्वेतावेव यज्ञवाटमुत्तरेण विहारभूमिषु क्रीडतः । तदुपेत्य निःशङ्कमवलोकय ।
(इति निष्क्रान्तौ ।)
विष्कम्भकः ।
(ततः प्रविशतो रामलक्ष्मणौ।) रामः-अहो विचित्रमिदमायतनं सिद्धाश्रमपदं नाम भगवतो गाधिनन्दनस्य ।
तत्तादृक्तृणपूलकोपनयनक्लेशाच्चिरद्वेषिभि
र्मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमालभ्यते ।
शीतवीर्यं सच्चक्षुष्यं भवति । यथा पिप्पल्याश्चक्षुषि शीतवीर्यत्वम् । तथा च वैद्यकम्'चक्षुष्या पिप्पली शीतवीर्या च' इति । 'मह उत्सवतेजसोः' इति विश्वः । अनुजानीहि खीकुरु । समित्काष्ठम् । समिदाहरणायेति तादर्थं चतुर्थी । अहं वीति । 'अहमपि क्षत्रियकुमारयोर्दर्शन उत्कण्ठितोऽस्मि । तत्कथय कुत्र प्रेक्षे' [इति च्छाया ।] खत्तिअकुमाराणं इति 'प्राकृते द्विवचनस्य बहुवचनं नित्यम्' इति वहुवचनम् । यज्ञवाट यज्ञस्थानं यज्ञमार्ग वा । 'वाटो मार्गे वृतिस्थाने' इति विश्वः । 'एनपा द्वितीया' इति द्वितीया षष्ठ्यर्थे । उत्तरेणोत्तरासु । ‘एनबन्यतरस्यामदूरेऽपञ्चम्याः ' इति सप्तम्यर्थे एनप् । विहारः क्रीडा । निष्कान्तौ । पशुमेढशुनःशेफाविति शेषः । विष्कम्भको नाम पात्रभेदः। तथा च भरतः-'वृत्तवर्तिष्यमाणानां कथाङ्गानां निवेदकः । संक्षेपोक्तिः स विष्कम्भो मध्यपात्रप्रयोजित: ॥ कुतोऽपि स्वेच्छया प्राप्तः संबन्धो नोभयोरपि । विष्कम्भकः स विज्ञेयः कथार्थस्यापि सूचकः ॥ विष्कम्भको द्विधा ज्ञेयः शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥ संस्कृतोक्त्या च शुद्धः स्यात्संकीर्णो नीचभाषया' । तत्र शुद्धो यथा मालतीमाधवे श्मशानाङ्के कपालकुण्डला । उन्मत्तमाधवे सौदामिनी । संकीर्णो यथा रामानन्दे क्षपणककापालिकौ । 'असूचितस्य पात्रस्य प्रवेशो नैव युज्यते । ततो विष्कम्भकेणास्य सूचनं रचयेद्बुधः ॥' इति संगीतकल्पतरुवचनात् । 'नन्वेतावेव' इत्यादिना सूचितयो रामलक्ष्मणयोः प्रवेशमाहततः प्रविशत इति । आयतनं स्थानम् । सिद्धाश्रमपदं वामनमूर्तेर्हरेः स्थानम् । कुतो विचित्रमिदमायतनमित्यत आह-तत्तादृगिति । बटुभिर्मुनिबालकैर्विहस्य सो
१. "सिद्धाश्रमं नाम' इति पाठः.
For Private and Personal Use Only