________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः] अनर्घराघवम् ।
६९ निर्यन्मधुव्रतकदम्बमिषाद्वमन्ति
___ बिभ्रन्ति कारणगुणानिव मौक्तिकानि ॥ ११ ॥ अपि च ।
विकसितसंकुचितपुनर्विकखरेप्वम्बुजेषु दुर्लक्ष्याः । कलिकाः कथयति नूतनविकासिनीमधुलिहामर्घः ॥ १२ ।।
(आदित्यमण्डलं निर्वर्ण्य ।) कटुभिरपि कठोरचक्रवाकोत्करविरहज्वरशान्तिशीतवीर्यैः ।
तिमिरहतमयं महोभिरञ्जञ्जयति जगन्नयनौघमुष्णभानुः ॥ १३ ॥ तदनुजानीहि मां समिदाहरणाय । गच्छन्यो मधुव्रतसमूहस्तस्य मिषाद्व्याजान्मौक्तिकानि मुक्ताफलानि वमन्न्युगिरन्ति । ननु मधुव्रतानां श्यामत्वान्मुक्तानां च श्वतखभावत्वात्कथं तुल्यतेत्यत आह—कारणगुणान्बिभ्रन्तीव दधानानीव । कारणगुणा हि कार्य गुणमारभन्त इति सिद्धान्तः। अत्र च तिमिरवृष्टिपानं कारणं कार्य च मधुव्रतरूपमुक्ताफलमित्यर्थः । 'कुङ्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । 'दोषा रात्रौ भुजेऽपि च' इति विश्वः । दोषातनी मिति दोषाशब्दात् 'सायं चिरं-' इत्यादिना ट्युस्तुट् च । विकसितेति । मधुलिहां भ्रमराणामर्घ आदरो नूतनविकासिनीस्तद्दिनविकासिताः कलिकाः कर्मभूताः कथयति । कलिका एता इति ज्ञानं तत्रत्यानां कुरुत इत्यर्थः । कीदृशीः। पूर्वदिने विकसितानि प्रफुल्लितानि रात्रौ संकुचितानि निमीलितानि पुनर्वर्तमानदिने विकखराणि विकासशीलानि यान्य. म्वुजानि पद्मानि तत्र लवुझ्या दुईयाः । नानावस्थपद्मदर्शनेन कलिकाविकसितसंदेहे यत्र भ्रमरादरस्तत्र मधुप्राचुर्यज्ञानात्कलिकात्वं निश्चीयत इति भावः । विकस्वरेष्वित्यत्र 'स्थेशभास-' इत्यादिना वरच् । यद्वा! मकरन्दो मधुलिहां कृते नूतनविकासिनीः कलिकाः कथयति । 'पूजायां मकरन्देऽपि भवेदधस्तथादरे' इति विश्वः । 'मधुलिहामोघः' इति पाट ओघः समूहः । योजना तु पूर्वैव । निर्वर्ण्य निरूप्य । कटुभिरपीति। उष्णभानुः सूर्यो जयति । किं कुर्वन् । महोभिस्तेजोभिस्तिमिरेणान्धकारेण हतं प्रतिहतं जगन्नयनौघं संसारस्य लोचनसमूहमञ्जवक्तीकुर्वन्सन् । अन्येनाप्यौषधेन चक्षुषोऽञ्जनं क्रियते । तेनापि तिमिरादिरूपव्याधिविशेषो हन्यत इति ध्वनिः । क्वचित् 'तिमिरभरम्', क्वचित् 'तिमिरमयम्' इति पाठः । तद्येऽपि योजनार्थयोरविशेषः । कीदृशैः । कटभिरपि तीक्ष्णैरपि सद्भिः कठोरोऽसह्यो यश्चक्रवाकसमूहविरहज्वरस्तस्य शान्तावुपरामे शीतः पराक्रमो येषां तादृशैः । तीक्ष्णैरपि शीतलैरिति विरोधाभासः । यद्वा कटुभिरपि रूक्षैरपि । आतपो हि कटुरूक्ष इति द्रव्यगुणः । यच्च वस्तु कटु भवति तदपि १. 'आदित्यं निर्वर्ण्य च' इति पाठः.
अन० ७
For Private and Personal Use Only