________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
शुन शेफ:-सखे, सर्वमेतदयोध्यायात्रायां समाधिमयेन चक्षुषा साक्षात्कृतत्रिभुवनवृत्तान्तस्य तातविश्वामित्रस्य मुखादश्रौषम् । (सर्वतोऽवलोक्य ।) अये, प्राभातिकी भुवनस्य लक्ष्मीः । तथा हि ।
प्रत्यग्रज्वलितैः पतङ्गमणिभिर्नीराजिता मानवः
सावित्राः कुरुविन्दकन्दलरुचः प्राचीमलंकुर्वते । प्रौढध्वान्तकरालितस्य वपुषश्छायाछलेन क्षणा
दप्रक्षालितनिर्मलं जगदहो निर्मोकमुन्मुञ्चति ॥ १० ॥ अपि च ।
पीत्वा भृशं कमलकुङ्मलशुक्तिकोषा
दोषातनी तिमिरवृष्टिमथ स्फुटन्तः ।
भवता । प्रतिपनं ज्ञातम् । यात्रा गमनम् । समाधिया॑नम् । साक्षात्प्रत्यक्षम् । 'साक्षा. त्प्रत्यक्षतुल्ययोः' इति विश्वः । वृत्तान्तो वार्ता । अश्रौषं श्रुतवानस्मि । लुङि सिचि वृद्धौ च रूपम् । प्राभातिकी प्रभातभवा । 'कालाह' । प्रसक्तानुप्रसक्त्या गुरुकार्यबाधशङ्कया पशुमेढ़मतिमित्रमन्यत्र दत्तचित्तं कारयितुं समिदाहरणाय जिगमिषुराह-प्रत्यग्रेति । सावित्राः सौराः। तस्येदम्' इत्यण् । भानवः किरणाः प्राची पूर्वी दिशमलं. कुर्वतेऽनुरञ्जयन्ति । कीदृशाः । कुरुविन्दस्य पद्मरागस्य यत्कन्दलं प्रकाण्डः । अङ्कुरमिति यावत् । तद्वद्रुक्शोभा येषां ते तथा । यद्वा कुरुविन्दः पद्मरागः, कन्दलं नवपल्लवः, तयोरिव रुचो येषां ते । यद्वा कन्दलं नवाङ्कुरम् । 'कन्दलं स्यात्पल्लवे च नवाङ्कुरे' इति विश्वः । अतिलोहिता इत्यर्थः । प्रत्यग्रज्वलितैरभिनवदीप्तः पतङ्गमणिभिः सूर्यकान्तैर्नीराजिताः । निर्मन्थिता इत्यर्थः । नीराजना शान्तिकर्म । तेजोञ्छन इति प्रसिद्धम् । किरणोत्कर्षमुक्त्वा तर्जगन्नैर्मल्यमाह-इदं च जगच्छायाछलेनातपाभावव्याजेन वपुषशरीरस्य निर्मोक कञ्चकमुन्मुञ्चति त्यजति । कीदृशं जगत् । अप्रक्षालितं सदपि निर्मः लम् । अत्राहो आश्चर्यम् । अन्यद्धि वस्तु प्रक्षालनानिर्मलम् । एतत्तु न तथेति चित्रम् । विरोधाभासः । कीदृशस्य वपुषः । प्रौढमुपचितं यद्धान्तमन्धकारं तेन करालितस्य लेपितस्य.। विभावना नामायमलंकारः । यदाह दण्डी-'प्रसिद्धहेतुव्यावृत्त्या यत्किंचित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥' इति । 'पतङ्गः शलभे शालिप्रभेदे विहगे रवौ' इति मेदिनीकरः । 'कुरुविन्दः पद्मरागः' इति धरणिः । पीत्वेति । कमलानां ये कुङ्मलाः कलिकास्ता एव शुक्तयस्तासां कोषाः कर्तृभूता दोषातनी रात्रिभवां तिमिरवृष्टिमन्धकारवृष्टिं भृशमत्यर्थ पीत्वानुस्फुटन्तः सन्तो निर्यनि
१. 'अहो' इति पाठः. २. 'भुवनलक्ष्मीः ' इति पाठः.
For Private and Personal Use Only