________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः] _ अनर्घराघवम् ।
शुनाशेफः-सखे, अनभिज्ञोऽसि । स्वयं प्रयोगादन्तेवासिभिर्विहितः प्रयोगो महिमानमाचार्याणामुपचिनोति । पश्य
स्थानेषु शिष्यनिवहैर्विनियुज्यमाना
विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकीर्णे
रत्नाकरो भवति वारिभिरम्बुराशिः ॥ ९॥ किं च दीक्षिप्यमाणा न क्रुध्यन्तीति रक्षितारं क्षत्रियमुपाददते ।
पशुमे:--अज्ज, सोहणं मन्तेसि । अण्णं वि किं वि पुच्छिदुकामो मि।
शुन शेफः-किं तत् ।
पशुमेद्रः-सव्वधा णिगूढं वि वाणराणं छग्गुणअं कधं अजेण पडिवण्णम् । ल्वेतत्' [इति च्छाया ।] अस्योपलक्षणस्यायमभिसंधिः-सो यदि भक्षयिष्यति तदा प्राघुणकं न चेत्तदा सर्पमारणमभिलषितमेव । तथा प्रकृतेऽपि यदि राक्षसा भक्षयिप्यन्ति तदा राममथ न तदा रक्षोमारणं श्रेय एवेति । 'प्राघुणस्त्वतिथियोः' इति त्रिकाण्डशेषः । 'जइ णिआओ जेव्व' इत्यादि पशुमेवाक्य उत्तरयति-स्वयं प्रयोगादिति । स्वयं प्रयोगादात्मप्रयुक्तेः । अन्तेवासिभिः शिष्यैः करणभूतैः । उपचिनोत्युपचितीकरोति । तदेव स्पष्टयति--स्थानेविति । हि यतः शिष्यनिवहैइछात्रसमूहैः स्थानेषु समीचीनेषु विनियुज्यमाना सती विद्या गुरुमाचार्य गुणवत्तरमतिगुणमातनोति विस्तारयति। अत्र दृष्टान्तमाह-आदायेति । अम्बुराशिः समुद्रः । आदाय । अर्थात्समुद्रादेव । वारि । वलाहकेन मेघेन शुक्तिषु विप्रकिणैः खातीनक्षत्रयोगाद्विक्षिप्तः । विशब्दस्य विशेषार्थाभिधायकत्वात् । वारिभिः पानीयैः करणभूतैः । मुक्तारूपेण परिणतैरिति भावः । रत्नाकरो भवति रत्नानामुत्पत्तिस्थानं भवति । क्वचित् 'आधाय' इति पाठः । तत्र शुक्तिष्वाधायारोप्येत्यर्थः । 'वलाहको गिरौ मेघे' इति मेदिनीकरः । अजेति । 'आर्य, शोभनं मन्त्रयसे' इति च्छाया ।] शोभनं कथयसीत्यर्थः । यद्यपि 'मत्रि गुप्तपरिभाषणे' इति पठ्यते तथापि लक्षणया भाषणमात्रेऽपि प्रयोगः। यद्वा धातोरनेकार्थत्वादिदम् । अण्णं वीति । 'अन्यदपि किमपि प्रष्टुकामोऽस्मि' [इति च्छाया ।] सर्वथा निगूढमपि वानराणां षाडण्यं कथमार्येण प्रतिपनम्' इति च्छाया ।] प्रष्टुकाम इत्यत्र 'तुं काममनसोरपि' इत्यम्लोपः । निगूढं गुप्तम् । षाडण्यं मन्त्रणा । आर्यण
१. 'दीक्षमाणाः' इति पाठः.
For Private and Personal Use Only