________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
- पशुमेद्रः-(सकौतुकम् ।) णाअसहस्सबला इत्थीअत्ति ति अस्सुदपुव्वं क्खु एदं । तदो तदो।
शुन शेफ:-ततश्च श्रौतस्य विधेः प्रत्यूहमस्याः शङ्कमानः कुलपतिरिमौ दाशरथी रामलक्ष्मणावानीतवान् ।
पशुमेद्रः-जाणे रामभद्दो त्ति को वि रक्खसाणं उवरि अवइण्णो क्खु एसो। ___ शुन शेफः-सखे, एवमेतत् । रामभद्र इति कोऽप्ययं चतुरक्षरो राक्षसरक्षासिद्धमन्त्रः । विशेषेण पुनरिदानी भगवता कौशिकेन ब्रह्मज्योतिषस्तादृशं विवर्तमाश्चर्य दिव्यास्त्रमन्त्रपारायणमध्यापितः । __ पशुमेद्रः-मण्णे मन्तमईहिं अत्थदेवदाहिं समं बलादिबलाओ सत्तीओ वि रामे संकमिस्सन्ति ।
शुनःशेफः-अथ किम् । तदपि वृत्तमेव ।। पशुमेद:--अन्ज, णं भणामि जइ णिआओ जेव्व सत्तीओ णिआओ जेव्व अत्थविज्जाओ । ता किं त्ति अत्तणो विग्धोवसमे राहवस्स गोरअमुप्पादेदि तत्थभवं कोसिओ। अहवा पाहुणहत्थेण सप्पमारणं क्खु एदम् । णस्य कर्मत्वम् । णाअसहस्सेति । 'नागसहस्रबला स्त्री अस्तीत्यश्रुतपूर्व खल्वेतत् । ततस्ततः' [इति च्छाया ।] श्रौतस्य श्रुतिविहितस्य । श्रुतिर्वेदः । विधेः कर्तव्यस्य प्रत्यूह विघ्नमस्या राक्षस्याः सकाशात् । जाणे इति । 'जाने रामभद्र इति कोऽपि राक्षसानामुपर्यवतीर्णः खल्वसौ' [इति च्छाया ।] चतुरक्षरो रामभद्र इति । ब्रह्मज्योतिषो वेदतेजसः । विवतै फलम् । दिवि भवं दिव्यम् । दिव्यास्त्रमन्त्रपारायणं दिव्यास्त्रोपस्थितिहेतुकं मन्त्रसमूहरूपवेदभागम् । 'साकल्यासङ्गवचने पारायणतुरायणे' इत्यमरः। मण्णेइत्यादि । 'मन्ये मन्त्रमयीभिरस्त्रदेवताभिः समं बलातिबले शक्ती अपि रामे संक्रमिष्यतः' इति च्छाया । द्वित्वे बहुवचनमिति प्राकृतपरिभाषा । इह बलातिबला च शक्तिद्वयम् । एतद्रहणान्मासमेकं तृप्तेन पुंसा स्थीयत इत्यनुभाव इह । अज्जेति । 'आर्य, ननु भणामि यदि निजा एव शक्तयो निजा एवास्त्रविद्याः । तत्किमित्यात्मनो विघ्नोपशमे राघवस्य गौरवमुत्पादयति तत्रभवान्कौशिकः' [इति च्छाया ।] खयमेव शत्रुशमनशक्तत्वात्कथं तथा न करोतीति भावः । 'अथवा प्राघुणहस्तेन सर्पमारणं ख
१. 'संवृत्तमेव' इति पाठः. २. (विहस्य ।) 'अहवा' इति पाठः.
For Private and Personal Use Only