________________
Shri Mahavir Jain Aradhana Kendra
२ अङ्कः ]
www.kobatirth.org
•
अनर्घराघवम् ।
शुनःशेफः - सखे, किमुच्यते । रावणः खल्वसौ । प्रियाकर्तुं त्वस्मै नवनिजशिरः कर्तनरस
Acharya Shri Kailassagarsuri Gyanmandir
प्रहृष्यद्रोमा यः स परमिह लङ्कापरिवृढः । विलक्षव्यापारं किमपि ददृशुर्यस्य दशमं शिरस्ते मूर्धानः क्षणघृतपुनर्जन्मसुभगाः ॥ ८ ॥
६५
पशुमेह : – ( सकौतुकम् ) तदो तदो ।
शुनःशेफः- ततः सुकेतुसुता नागसहस्रबलधारिणी ताडका नाम राक्षसी तस्मादनीकादागत्य मनुष्यमण्डलविहारकौतुकादिमामस्मदीयां भूमिमधिवसति ।
For Private and Personal Use Only
इह अपरिहीनमत्यक्तम् । मित्रधर्मो मैत्र्यम् । कथमद्भुतमित्यर्थः । राक्षसो हि कस्य मित्रं भवतीति भावः । किमुच्यते । इदं त्वल्पमित्यर्थः । किं क्षेपे । खलु वाक्यालंकारेऽनुनये वा । असौ प्रसिद्धः । पुलस्त्यापत्यं रावणः । तथा च रावणो महावीरो महासत्त्व इति प्रसिद्ध एवायमर्थ इति भावः । इममेव श्लोकेनाह – प्रियाकर्तुमिति । तुः पुनरर्थे । अस्मै वालिने प्रियाकर्तुं प्रियं विधातुम् । उपकर्तुमिति यावत् । स लङ्काप्रभुरेव परम् । समर्थ इति शेषः । नान्यः । यद्वा त्वस्मै । अन्यस्मै त्वशब्दः सर्वादिरन्यार्थः । ' प्रभौ परिवृढः' इति निपातनम् । प्रियाकर्तुमिति 'सुखप्रियादानुलोम्ये' इति डाच् । स कः । नवसंख्याकनिजशिरः कर्तनरसेन प्रहृष्यदुच्छ्रसद्रोम यस्य तादृशो यः । रोमाञ्चवानित्यर्थः । इह च नव च तानि निजशिरांसीति समासं कृत्वा कर्तनरसेन समासे 'दिक्संख्ये संज्ञायाम्' इत्यसंज्ञायां समासाभाव इति न वाच्यम् । संज्ञायामित्यस्य प्रायिकत्वात् । यद्वा नवो नूतनश्चासौ निजः शिरः कर्तनरश्चेति समासः । अभूतपूर्वत्वाच्छिरःकर्तनस्य नवरसत्वम् । यद्वा नवानां निजशिरसां समाहार इति द्विगुः । अकारान्तोत्तरपदत्वाभावान्न स्त्रीत्वम् । क्वचित् 'प्रियाकर्तु कस्मैचन' इति पाठ: तत्र कस्मैचनानिर्वचनीयस्वरूपाय भगवते शिवाय प्रियाकर्तुं तादृशरोमाञ्चवान्स परमिह रावण एवेति योज्यम् । 'केवलेऽपि परं मतम्' इति धरणिः । त्वस्मै इत्यत्र 'क्रियाग्रहणमपि कर्तव्यम्' इति संप्रदानता । 'कर्तनं तु द्वयोरछेदे' इति विश्वः । विलक्षत्रपावान्व्यापारो यस्य तत् । क्षणेनाल्पकालेन धृतं यत्पुनर्जन्म तेन सुभगा: प्रसिद्धाः स्पृहणीया वा । अपरे दशमादन्ये मूर्धानः । ते दशमं शिरो विलक्षं दृष्टवन्त इत्यर्थः । ' मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः । सुकेतुर्नाम यक्षः । नागो हस्ती सर्पो वा । बलं सामर्थ्य सैन्यं वा । ‘नागः पन्नगमातङ्ग -' इति मेदिनीकरः । अनीकात्स्वराद्यधिष्ठितसैन्यात् । 'अनीकोsस्त्री रणे सैन्ये' इति मेदिनीकरः । ' मण्डलं स्याद्वादशराजसु देशेऽपि कीर्तितम्' इति विश्वः । विहारः क्रीडा । भूमिमधिवसतीत्यत्र 'उपान्वध्याङ्कसः' इत्यधिकर