________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
काव्यमाला। शुन शेफ:-(विहस्य ।) पुरैव किलायमाञ्जनेयो भगवतः सहस्रकिरणाव्याकरणविद्यामधीयानस्तदात्मजन्मनो वानरयोनेः सुग्रीवस्य साहायकमभिप्रायज्ञो गुरुदक्षिणीचकार ।
पशुमेदः-(सानन्दम् ।) हुं । ता उचितं जेव्व गुरुपुत्तो सबह्मचारी वा अणुवट्टीअदि । तदो तदो।
शुनाशेफः-ततश्चाहिभयोपजापजर्जरं सुहृद्हमुपश्रुत्य राक्षसराजः खरदूपणत्रिशिरोभिर्महामात्यैरधिष्ठितमात्मबलैकदेशं सिन्धोरुदीचि कूले वालिप्रतिग्रहाय प्राहिणोत् ।
पशुमेदः-कधं अपरिहीणमित्तधम्मो वि सो रक्खसो ।
निन्दम् । विचिकित्सायाः प्रयोजक रूपकमाह-अजेति । 'आर्य, यथा तथा भवतु । स्वामी खाम्येव । तं परित्यज्य तत्सदृशस्तादृशस्य महानुभावस्य प्रतिकूलपरिग्रहः' [इति च्छाया । इह प्रतिकूलो वालिवैरी सुग्रीवस्तस्य परिग्रहः स्वीकारः । 'प्रतिग्रहः' वा पाठः । तत्राप्ययमेवार्थः । वालिनोऽसन्मार्गप्रपनत्वादेव परं न सुग्रीवसपक्षत्वम् , किं तु प्रकारान्तरेण तत्त्वमिति तदुपपादयति-पुरैवेति । किलागमे। अयमाञ्जनेयोऽञ्जनीपुत्रो हनुमान्सहस्रकिरणादादित्याद्व्याकरणविद्यामधीयानः पठंस्तदात्मजन्मनः सूर्यपुत्रस्य सुग्रीवस्य साहायकं साहाय्यम् । द्वितीयत्वमित्यर्थः । गुरुदक्षिणीचकार गुरुदक्षिणां कृतवान् । वानरयोनेरिति योनिराकरः । 'योनिः स्यादाकरे हेतौ' इति विश्वः । नन्वादित्यस्वरसं विनैव किं तथा कृतवानियत आह-अभिप्रायशः । तस्येति शेषः । आशयवेत्तेत्यर्थः । साहायकमिति सहायशब्दात् 'योपधाद्गुरूपोत्तमागुञ्' इति भावे बुञ् । हुमित्यादि । 'हुं। तदुचितमेव गुरुपुत्रः सब्रह्मचारी वानुवर्यते । ततस्ततः' [इति च्छाया । इह हुं वितर्के । 'हुँ वितर्के परिप्रश्ने' इति विश्वः । 'हुं तर्के स्यात्' इत्यमरोऽपि । सब्रह्मचारी एकब्रह्मव्रताचारः । सहाध्येता वा । 'एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः' इत्यमरः । अहिभयं स्वपक्षभयम् , उपजापो भेदः, ताभ्यां जर्जरं जीर्णम् । 'महीभुजामहिभयं खपक्षप्रभवं भयम्' इत्यमरः । 'समौ भेदोपजापौ' इति च । सुहृद्हं वालिवेश्म । राक्षसराजो रावणः । उदीचि उत्तरे । 'उद ईत्' इतीत्वेऽञ्चते रूपम् । वालिप्रतिग्रहाय वालिरक्षायै । यत्तु क्वचिद्हणायेति व्याख्यानं तन्मन्दम् । 'कथं अपरिहीणमित्तधम्मो वि सो रक्खसो' इत्यग्रिमग्रन्थविरोधात् । प्राहिणोत्प्रहितवान् । कधमित्यादि । 'कथमपरिहीनमित्रधर्मोऽपि स राक्षसः' [इति च्छाया ।]
१. 'सखे पुरैवाञ्जनेयो' इति पाठः. २. 'व्याकरणम्' इति पाठः. ३. 'सानन्दम्' इति पुस्तकान्तरे नास्ति. ४. 'सुहृत्कुलम्' इति पाठः.
For Private and Personal Use Only