________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः ]
अनर्घराघवम् ।
६१
धीष्टे । किं पुनर्नयनसहस्रतयस्य तादृशि विभवे मरुतां पतिः । चक्षुः प्रीतिमुद्भवन्तीमनूद्भवन्ति चापराणि कुसुमचापचापलानि ।
पशुमेह :- ( विहस्य 1 ) मण्णे एदाए एव्व मुणिघरणीए पुण्णपरिणामो एत्थ रामभद्दस्य पवासे कारणम् ।
शुनःशेफः - इदं तावत्प्रथमम् ।
पशुमेदू : - ( साभ्यर्थनम् 1) अज्ज, दुदीअं वि सुणिदं इमिणादे वअणेण पज्जुस्सुओ हि ।
शुनःशेफः - सखे, त्वयि किमकथनीयं नाम । अस्ति किष्किन्धायां पुरंदरस्य नन्दनो वालिर्नाम लेवगराजः । तं च रजनीचरचक्रवर्तिना दशकंधरेण सह प्रेवृत्त मैत्रीकमवलोक्य वानराच्छभल्लगोलाङ्गूलप्रभृतीनामाचार्यः सर्वामात्यानुमतो जाम्बवानवादीत् ।
शीकर्तुं नाधीष्टे न समर्थो भवति । किं पुनर्नयनसहस्रतयस्य सहस्रावयवस्य तादृश्यनिर्व चनीये विभवे वागपारसंपत्तौ सत्यां विवेकमङ्कुशं कर्तुं मरुतां पतिरिन्द्रोऽधीश्वरः स्यात् । अपि तु न कदापि । यतः - ' - 'यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥' इति । लोचनद्वितयस्येत्यत्र 'अधीगर्थ-' इत्यादिना कर्मणि षष्टी । नयनसहस्रतयस्येति ‘संख्याया अवयवे तयप्' । 'सहस्रनयनस्य' इति क्वचित्पाठः । तत्र सहस्रं च तानि नयनानि चेति विशेषणसमासे 'दिक्संख्ये संज्ञायाम्' इति नियमादसंज्ञायां समास एव न स्यात् । बहुवचनप्राप्तिश्च । उच्यते - सहस्रं नयनानामिति समाहारे द्विगु: । पात्रादित्वात्स्त्रीत्वनिषेधः । त्रिभुवनवत् । अनयोर्मानुषेन्द्रयोर्नेत्रवैषम्यकथनेन प्रकृते किं प्रतिपादितं स्यादित्याशङ्क्य चक्षुषस्तत्रासाधारण कारणतामाह - चक्षुः प्रीतीति । उद्भवन्तीमुपजायमानां चक्षुःप्रीतिं चाक्षुषरागमनुलक्ष्यीकृत्यापराण्यधिकानि कुसुमचापचापलानि मन्मथविकारा उद्भवन्ति । 'अनुर्लक्षणे' इति द्वितीया । मण्णे इत्यादि । 'मन्ये एतस्या एव मुनिगृहिण्याः पुण्यपरिणामोऽत्र रामभद्रस्य प्रवासे का - रणम्' [इति च्छाया ।] इह परिणामः परिणतिः । इदं तावत्प्रथमम् । अपरमपि वालिबधादिकमस्तीति हृदयम् । अभ्यर्थना प्रार्थना । अजेति । 'आर्य, द्वितीयमपि श्रोतुमनेन तव वचनेन पर्युत्सुकोऽस्मि' [ इति च्छाया ।] इह पर्युत्सुक उत्कण्ठितः । अस्तीत्यादि । पुरंदरस्येन्द्रस्य नन्दनः पुत्रः । 'नन्दनं वासवोद्याने नन्दनो हर्षके सुते' इति मेदिनी -
१. ' लवंगमराजः' इति पाठः. २. 'प्रवृद्ध' इति पाठः. ३. 'अनुगतः' इति
पाठ:.
For Private and Personal Use Only