________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
काव्यमाला। पशुमेदः-(सकौतुकम् ।) तदो तदो ।
शुन शेफः-ततश्च राजन्मायाविनी खल्वियं राक्षसजातिः । विशेषेण महेन्द्रावस्कन्दकन्दलितविक्रमः पितृवैरी तवायं रावणः । अपि च त्वदीयदोर्मूलसंपीडनगलितपौरुषो न विश्वविजयीति खयमाशङ्कनीयः । नापि सामन्तान्तरजिघृक्षायामन्तरावर्तिनि समुद्रे लघुसमुत्थः । तदनेन विराद्धमण्डलेन सहाँसुरविजयिना मैत्रमनर्थानुबन्धि । किं च सर्वथेयमनुपकारिणी पुलस्त्यापत्येषु प्रीतिरिति भगवानिहोदाहरणं हरिणाङ्कशेखरः । करः । वालिरिति ह्रखेकारान्तोऽपि । तथा च विश्वप्रकाशः–'ऐन्द्रिाली च वालिश्च' इति । प्लवगो वानरः । तं चेत्यादि । जाम्बवान्भन्छूकराजो वालिमन्त्री दशकंधरेण रावणेन प्रवृत्तमैत्रीकं तं वालिनमवलोक्यावादीदिति योजना । कीदृशेन । रजनिचरा राक्षसास्तेषां चक्रवर्तिना सार्वभौमेन । अच्छभल्ला भलूकाः । 'ऋक्षाच्छभल्लभलूकाः' इत्यमरः । 'ऋक्षभल्ल-' इति पाठे भलूक एवोच्यते । गोलाङ्गूल: कृष्णमुखो वानरभेदः। 'मन्त्रव्याख्याकृदाचार्यः' इत्यमरः । विशेषेणेत्यादि । महेन्द्रावस्कन्देनेन्द्रपराभवेण कन्दलितो नवीभूतो विक्रमो यस्य तादृशो रावणस्तव पितृवैरी । भवतो महेन्द्रपुत्रत्वात् । त्वदीयदोर्मूलसंपीडनेन कक्षायन्त्रणेन गलितं भ्रष्टं पौरुषं यस्य तादृशः । अत एव न विश्वविजयी । भवतैव जितत्वात् । तेनावश्यमाशङ्कनीयः । पुरा किल वालिना रावणं कक्षायामारोप्य सप्तसु समुद्रेषु संध्यावन्दनं कृतम्-इति पुराणम् । नापि सामन्तान्तरस्य राजान्तरस्य जिघृक्षया ग्रहीतुमिच्छयान्तरावर्तिनि मध्यस्थिते समुद्रे लघु शीघ्रं समुत्थः समुत्थानं यस्य तादृशः । न शीघ्रं पारगमने शक्त इत्यर्थः । त्वद्दोर्मूलसंपीडनगलितपौरुषत्वात् । समुत्थ इत्यत्र 'सुपि स्थः' इति योगविभागाद्भावे कः । यथा सुस्थ इत्यादौ । तात्पर्यमुपसंहरति-तदनेनेति । विराद्धं विरुद्ध मण्डलं राष्ट्र द्वादशराजचक्रं वा यस्य तेन सह मैत्रं मित्रतानर्थानुबन्धि अनर्थसहितम् । अनर्थमनु. वर्द्ध शीलं यस्य तादृशम् । असुरविजयिना न सुरेभ्यो विजयो भङ्गो यस्य तेन । यद्वासुरश्चासौ विजयी च तेन । यद्वा न सुरो विजयी यस्य तेन । अशब्दो निषेधार्थः । अमानोनाप्रतिषेधवचनादिति न्यायात् । 'सुरविजयिना' इति वा पाठः । 'मण्डलं परिधौ कोषे देशे द्वादशराजके' इति विश्वः । सोपहासं मित्रताविघटकं दृष्टान्तमाह-किं चेति । पुलस्त्यो मुनि विशेषः । हरिणाङ्कशेखरः शिवः । विप्रकृष्टदेशावस्थितत्वेन मित्रस्याप्यनुपकारकत्वे मान्यं न शङ्कयत इत्याशङ्कावारकमेकालयस्थेऽपीति विशेषणम् । एकगृहस्थितेऽपि सख्यौ धनाधिनाथे कुबेरे। कुबेरशिवयोः कैलासावस्थायित्वात् । त्रि
१. “विहस्य' इति पाठः. २. 'विराद्धभुवनमण्डलेन' इति पाटः. ३. 'सुरासुरविजयिना' इति पाठः. ४. 'अनर्थानुबन्धि भविता' इति पाठः. ५. 'शेखरोऽपि' इति पाठः.
For Private and Personal Use Only