________________
Shri Mahavir Jain Aradhana Kendra
६०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
शुनःशेफः – सखे, भयमिति किमेतद्ब्राह्मणस्य । तत्पर्यवस्थापया
त्मानम् ।
( इत्युपविशतः ।)
पशुमेदू : - (चिरं विमृश्य निःश्वस्य च सविस्मयम् ।) कथं विसयमिअतिहासलज्झलाए भअवदो हरिणो वि हरिणदा विटप्पीअदि ।
शुनःशेफः - (विहस्य ) साधु वीषि । अल्पीयान्खल्वयं लोकः कॅथमैहिक सुखाध्यवसायाद्वै अमूर्भूयस्यो रात्रयः पराहण्यन्ते । किं तु मनोहारिभिराहार्ये रौह्रियमाणलोचनद्वितयस्यापि न जनो विवेकमङ्कुशयितुम
जति । तदार्य शुनःशेफ, मुहूर्त विश्रम्यताम्' [इति च्छाया ।] अत्र जीवलोके प्रविष्टोऽस्मि जीवितोऽस्मि । पर्यवस्थापय संवृणु । विमृश्येत्यादि । अहह सुरपतिरपि कथमेतादृशं कर्म कृतवानिति भावः । अत एव निःश्वासोपि । कधमिति । 'कथं विषयमृगतृष्णासलज्जलया भगवतो हरेरपि हरिणता विटप्यते' [इति च्छाया ।] इह विषय एव मृगतृष्णा मरीचिका तस्याः सलज्जलयास्फालनेनाघातेन । अनर्थ एवार्थित्वजननात् । अतिशोभया वा । भगवतो हरेरपीन्द्रस्यापि हरिणता हरिणत्वम् । पशुत्वमिति यावत् । यद्वा हरिणता पाण्डुरत्वम् । तत्तु मन्मथभावात् । 'हरिणः पाण्डुरः पाण्डुः' इत्यमरः । विटप्यतेऽर्ज्यते । विटपिरयं चुरादिरर्जने वर्तते । यद्वा 'अर्जतेर्विटप्यः' इति प्राकृतसूत्रात्तथा । विषयस्य विरसोदर्कतयासारत्वेन मरीचिकया रूपणम् | 'मृगतृष्णा मरीचिका' इत्यमरः । 'हरिश्चन्द्रार्कवाताश्वशक्रभेकयमादिषु' इति मेदिनीकर: । ' मृग: पशौ कुरङ्गे च' इति च । 'स्यादास्फाले सलज्जला' इति हारावली । ' सलज्जला तु शोभायाम्' इति रत्नकोषः । अल्पीयानल्पाशयः । अत्यर्थेनाल्पो वा । 'द्विवचनविभज्य -' इतीयसुन् । अल्पीयस्त्वमेव द्रढयति — कथमिति । ऐहिकमेतज्जन्मजम् । इहशब्दाद्भवार्थे ठञ् । अध्यात्मादित्वाद्वा । ऐहिक सुखाध्यवसायादेतज्जन्मसुखयत्नात् । वै पादपूरणे संबोधने वितर्के वा । अमूरामुष्मिक्यो रात्रयः सुखानि पराहण्यन्ते नाश्यन्ते । लोकेनेति शेषः । ' हन्तेरत्पूर्वस्य' इति णत्वम् । रात्रिशब्देन सुखमुपलक्ष्यते । सुखकालत्वात् । अत एव क्षणमुत्सवं ददातीति क्षणदेति रात्रिव्यपदेशः । अथवा विषयस्यैव तादृशं महत्त्वमित्याह — किं त्विति । मनोहारिभिराहार्यैराभरणादिभिराहियमाणस्याकृष्यमाणस्य लोचनद्वितयस्यापि जनो लोको विवेकं निर्मलज्ञानमङ्कुशयितुमङ्कु
१. 'पर्युपस्थापय'; 'पर्यवष्टम्भय' इति पाठौ. २. 'विश्रम्य विमृश्य च' इति पाठ: . ३. 'ब्रवीति भवान्' इति पाठः ४. ' अन्यथा कथम्' इति पाठः ५. 'सुखाध्यवसायलुब्धैः’; ‘सुखाध्यवसायात्' इति पाठौ. ६. 'आहियमाणस्य' इति पाठ:. ७. 'द्वयस्य' इति पाठः ८. 'ई' इति पाठः.
For Private and Personal Use Only