________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः ]
अनर्घराघवम् । पशुमेदः–ता रक्खदु मं अज्जो इमाए दुट्ठरक्खसीए मुहादो । (इति वेपमानः पादयोः पतति ।) __शुनःशेफः ---(सस्मितमुत्थाप्यालिङ्गय च ।) वयस्य, शृणोषि भगवतो गोतमस्य महर्षेरहल्यां नाम धर्मदारान् ।
पशुमेदः-जा जणअवंसपुरोहिदस्स तत्थभवदो सदाणन्दस्स ज. णणी । तदो तदो। ___ शुनःशेफः-सेयं पुरा पुरुहूतखण्डितचरित्रा तस्य दीर्घतपसो मुनेमन्युना निजमेव तदिन्द्रियदौर्बल्यमेवं विवर्तमानमनुभवन्ती संप्रत्य: स्य रघुराजपुत्रस्य तेजसा तस्मादन्धकारान्निरमुच्यत । तदलमावेगेन ।
पशुमेद्रः-(उन्मील्य चक्षुषी सर्वतोऽवलोक्य)। अहो अच्चरि। अजस्स पसादेण पुणो वि जीअलोए पविठ्ठो म्हि । तह वि सङ्कजरो अज वि ण मं परिच्चअदि । ता अज्ज सुणस्सेह, मुहुत्तरं विसमीअदु ।
जीवतो जनस्य पुनरावृतिः पुनरावरणम् । वास इति यावत् । हि यतो दृष्टातस्त्वमुत्तरीयं त्यक्त्वा समायातोऽसीति भद्रं कृतमिति भावः । ता रक्खदु इति । तद्रक्षतु मामार्य एतस्या दुष्टराक्षस्या मुखात्' [इति च्छाया । वेपमान: कम्पमानः । आरोपितभयादिति भावः । शुनःशेफोऽस्य त्रासोपशमनार्थमहल्यावृत्तान्तकथनायोपक्रमतेवयस्येत्यादि । 'दाराः पुंभूग्नि' इत्यमरः। पशुमेढ़वाक्ये-जा इति । या जनकवंशपुरोहितस्य तत्रभवतः शतानन्दस्य जननी । ततस्ततः' [इति च्छाया ।] इह तत्रभवतः पूज्यस्य । 'जननी तु दयामात्रोः' इति विश्वः । सेयमित्यादि । सेयमहल्या पुरुहूतेनेन्द्रेण खण्डितं नाशितं चरित्रं यस्यास्तादृशी दीर्घतपसो मुनेर्गोतमस्य । दीर्घ तपो यस्येति बहुव्रीहिः । यद्वा दीर्घतपा इति गोतमस्यैव नाम । तस्य मन्युना क्रोधेन । शापेनेति यावत् । निजं स्वीयमिन्द्रियदौर्बल्यमिन्द्रियासामर्थ्यमेवंविधं प्रस्तरपुत्रिकारूपं विवर्तमानं परिणतमनुभवन्ती संप्रत्यस्य रघुराजपुत्रस्य रामस्य तेजसा प्रभावेण रश्मिना वा तस्मादन्धकाराच्छापात् । अन्धकार इवान्धकारः शापः । यद्वान्धमदृशं करोतीत्यन्धकारो मुनिशाप एव । कर्मण्यण् । निरमुच्यत स्वयं मुक्ता । मुच्ल मोक्षणे' लडि कर्मकर्तरि रूपम् । अन्यदप्यन्धकारं तेजसा तिरस्क्रियत इति ध्वनिः । कथा चात्रातिप्रसिद्धैव । अलं निष्फलम् । आवेगेन भयेन । अहो इति । 'अहो आश्चर्यम् । आर्यस्य प्रसादेन पुनरपि जीवलोके प्रविष्टोऽस्मि । तथापि शङ्काज्वरोऽद्यापि न मां परित्य
१. 'वत्स, शेणोषि'; 'वयस्य, न भेतव्यम् । 'शृणोषि' इति पाठः. २. 'शुनःशेफःअथ किम् । पशुमेढ़ः-तदो तदो' इति पाठः.
For Private and Personal Use Only