SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir पुरोऽवलोक्य ।) कथमिदमुदयाचल मौलिमाणिक्यमर्कमण्डलमद्यापि न विहायस्तलमलंकरोति । तदस्मद्गुरोर्वितायमानयज्ञस्य कुलपतेः कौशिकस्यादेशात्समिदाहरणाय प्रस्थितोऽस्मि । तेत्त्वरितं गच्छामि । ( इति परिक्रामति ।) (प्रविश्य संभ्रान्तो वटुः 1) बटुः - अज्ज सुणस्सेह, किं वि अच्चरिअं भीसणं च वदि । शुनःशेफः – (सचमत्कारं परिवृत्य ) सखे पशुमेढू, किमाश्चर्य भीषणं च वर्तते । पशुमेद्र :- अज्ज रामो त्ति को वि खत्तिअकुमारो आउदो ति सुणिअ कोदूहलेन धावन्तस्स तैवोवणपेरन्तपरिट्टिदा पत्थरपुत्तलिआ सच्चमाणुसीभविअ मम ज्जेव्व समुहं परावडिदा । तं पेक्खिअ उत्तरासङ्गवक्कलं वि उज्झि पलायिदो हि । शुनःशेफः - ( विहस्य 1) सखे, साधु कृतम् । दिष्ट्या हि जीवतः पुनरावृत्तिः । टङ्कणे स्त्रियाम्' इति मेदिनीकर: । महामृगः पुष्करिदीर्घ मारुतौ विलोमजिह्वो जलकाक्षसिन्धुरौ' इति हस्तिपर्याये हारावली । 'वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी' इत्यमरः । चिरतरसमयापेक्षणे समिदाहरणत्वरयोत्पित्सुराह - कथमिति । अद्यापि । एतावतापि कालेनेत्यर्थः । विहायस्तलमाकाशम् । वितायमानयज्ञस्य विस्तारीक्रियमाणयज्ञस्य । ‘तनोतेर्यकि’ इत्यात्वम् । बटुवाक्ये - अजेत्यादि । 'आर्य शुनःशेफ, किमप्याश्चर्य भीषणं च वर्तते’[इति च्छाया ।] 'आर्येति ब्राह्मणं ब्रूयात्' इति भरतः । शुनःशेफ इत्यत्र 'शेफपुच्छलाङ्गूलेषु शुनः संज्ञायाम्' इत्यलुक् । पशुमेढूवाक्ये —- अज्जेत्यादि । 'अद्य राम इति कोऽपि क्षत्रियकुमार आगत इति श्रुत्वा कुतूहलेन धावतस्तपोवनपर्यन्तपरिस्थिता प्रस्तरपुत्रिका सत्यमानुषीभूय ममैव संमुखं परापतिता । तां प्रेक्ष्य उत्तरासङ्गवल्कलमप्युज्झित्वा पलायितोऽस्मि' [इति च्छाया ।] अत्र पुत्रिका 'पुतळी' इति प्रसिद्धा । परापतितागता । उत्तरासङ्गमुपरिवस्त्रम् | उज्झित्वा त्यक्त्वा । शुनःशेफः सोपहासमाह—सखे, साधु कृतमिति । पुनरावृत्तिः पुनरागमनम् । हि यस्माज्जीवत एव दृष्टा तस्मात्त्वमुत्तरीयं त्यक्त्वा समायातोऽसीति त्वया साधु शोभनं कृतम् । जीवने सति पुनरागम्यत इति भावः । यद्वा पुनरावृत्तिः पुनर्जन्म | 'पुनरावृत्तिदुर्लभम्' इत्यादौ तथा दर्शनात् । तेन जीवत एव तावदिह तव पुनर्जन्म दृष्टमित्यर्थः । यद्वा पुनरावृत्तिरेव जीवतो जनस्य मया दृष्टा । लोकोक्तिरियम् । 'पुनरावृतिः' इति क्वचित्पाठः । तत्र १. 'नभःस्थलम्' इति पाठ: २. 'त्वरितम्' इति पाठ:. ३. 'गोदमतबोवण' इति पाठ: • For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy