________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ अङ्कः]
अनर्धराघवम् ।
लतातन्तुवितानवर्तुलमितो बिम्बं दधचुम्बति प्रातः प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमाः ॥ २ ॥
( सर्वतोऽवलोक्य च ।)
Acharya Shri Kailassagarsuri Gyanmandir
दिङ्मण्डलीमुकुटमण्डनपद्मरागरत्नाङ्कुरे किरणमालिनि गर्भितेऽपि । सौखप्रसुप्तिकमधुव्रतचक्रवालवाचालपङ्कजवनीसरसाः सरस्यः ॥ ३ ॥
For Private and Personal Use Only
५५
1
दयन्ति । अङ्कुरयुक्तां कुर्वन्तीत्यर्थः । यद्वा किं चापि चेत्यर्थः । रुचो दीप्तयः पूर्वा दिशं नाङ्कुरवतीं कुर्वन्ति । तथा चायाप्यरुणोदयो न वृत्त इत्यर्थः । कीदृश्यः । राजीवानां पद्मानां जीवातवो जीवनौषधानि । आदित्य संबन्धिन्य इत्यर्थः । अङ्कुरोऽस्यास्तीति ' तत्करोति' इति णिच् । ‘णाविष्ठवत्प्रातिपदिकस्य' इतीष्टवद्भावात् 'विन्मतोर्लुक्' । किंचनशब्दोऽव्ययं किंचिदर्थे । चन्द्रमा इतोऽम्बरतलादाकाशात् । गत्वेति शेषः । अस्ताचलमस्तपर्वतं चुम्बत्यालिङ्गति । 'चुबि वऋसंयोगे' इति वक्रपदमुपलक्षणम् । 'अङ्गारचुम्बितमिव व्यथमानमास्ते' इति भवभूतिप्रयोगदर्शनात् । तलं स्वरूपम् | 'स्वरूपानूर्ध्वयोस्तलम्' इत्यमरः । यद्वाम्बरतलादितो गतश्चुम्बति । 'इण् गतौ' क्तः । लूता मर्कटकृमिः । मर्कटसूत्रवि - स्तारवद्वर्तुलं बिम्बं मण्डलं दधत् । तनोतेर्घञ् । प्रोषितरोचिः । अपगततेजा इत्यर्थः । दधदिति 'नाभ्यस्ताच्छतु:' इति नुम्निषेधः । 'बिसप्रसून राजीव - ' इत्यमरः । 'जीवातुर्जीवनौषधम्' इति । 'हरिणः पाण्डुरः पाण्डुः' इति च । साश्वर्यमाह - दिमण्डलीति । सौखप्रसुप्तिकाः सुखशयनप्रश्नकर्तारो ये मधुव्रता भ्रमरास्तेषां चक्रवालं मण्डलं तेन वाचाला बहुभाषिणी । सशब्देति यावत् । या पङ्कजवनी पद्मवनी तथा सरसा: सोल्लासाः सशब्दा वा । 'रस शब्दे' | 'पुंसि संज्ञायां घः प्रायेण' इति घः । सरस्यः सरोवराः । सन्तीति शेषः। जाता इति वानुषञ्जनीयम् । योऽपि सुखशयनप्रष्टा सोऽपि प्रातरुत्थायागच्छति । मधुकरसमूहा अपि प्रातरेव मधुपानाय तत्र गच्छन्तीति सुखसुप्तप्रष्टृत्वेन रूपिताः। सौखप्रसुप्तिक इति 'पृच्छतौ सुस्नातादिभ्यः' इति ठक् । किरणमालिनि सूर्ये गर्भितेऽपि संजातगर्भे सति । तारकादित्वादितच् । गगनतिरोहितेऽपीत्यर्थः । यद्वा गर्भ इवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विप् वा वक्तव्यः' इति क्विपि कृते क्तः । कीदृशे । दिशां मण्डली दिक्समूहस्तस्या यन्मुकुटमलंकारभेदस्तस्य मण्डनः शोभयिता यः पद्मरागः । क्रुधमण्डार्थेभ्यश्च' इति कर्तरि करणे वा युच् । पद्मरागश्चासौ रत्नं चेति कर्मधारयः । तस्याङ्कुर इवाङ्कुर इति रूपकम् । एतेनाभरणत्वेनाति मनोहारित्वमुक्तम् । यदाह कालिदासः -- 'आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्र त्युपमानं वपुस्तस्याः ॥' इति । सूर्यस्याभिनवत्वेन मनोहारित्वालोहितत्वाच्च पद्मरागरत्नाङ्क