________________
Shri Mahavir Jain Aradhana Kendra
५४
www.kobatirth.org
काव्यमाला |
द्वितीयोऽङ्कः ।
(ततः प्रविशति यजमान शिष्यः ।)
शिष्यः - अये, प्रभातप्रायैव रजनी । तथा हि । तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिप्यन्मार्तण्डोपलपटलधूमैरिव दिशः ।
सरोजानां कर्षन्नलिमयमयस्कान्तमणिव
अपि च ।
Acharya Shri Kailassagarsuri Gyanmandir
त्क्षणादन्तःशल्यं तपति पतिरद्यापि न रुचाम् ॥ १ ॥
जाताः पक्कपलाण्डुपाण्डुमधुरच्छायाकिरस्तारकाः प्राचीमङ्करयन्ति किंचन रुचो राजीवजीवातवः ।
विश्वामित्रयागरक्षणार्थं रामभद्रस्य तपोवनागमनं तत्प्रासङ्गिकाहल्यायाः पूर्वरूपप्राप्तिस्ताटकावधो मारीचादेर्दूरापसरणादिकं सम्यक्सूचयितुं शुनःशेपप्रवेशमाह— ततःप्रविशतीति । एतावानेव द्वितीयाङ्कार्थः । यजमानो यः सोमवति यज्ञे दीक्षितः । स च कौशिकस्तस्य शिष्यः शुनःशेपः । प्रभातप्राया प्रभातसदृशी । 'प्रायो बाहुल्यतुल्ययो: ' इति धरणिः । प्रभातप्रायत्वमस्याः कुतोऽवगतमित्यत आह-तमोभिरिति । तमोभिरन्धकारैर्दिशः पीयन्ते । आच्छाद्यन्त इत्यर्थः । पीयूषवपुष्यमृतमहसि चन्द्रे गतवि गलितवयसि बृद्धे सति । पश्चिमाशामारोहतीति यावत् । कीदृशैः । ज्वलिष्यन्सूर्योदयाद्यो मार्तण्डोपलपटल: सूर्यकान्तमणिसमूहस्तस्य धूमैरिव । धूमस्य श्यामत्वात्तमस्त्वेन रूपणम् । अन्योऽपि धूमो ज्वलिष्यतो वह्नेः पूर्व दिशो व्याप्नोतीति ध्वनिः । समिदाहरणरूपगुरुकार्याय त्वरमाणः सत्वरमनुदेष्यमाणं सूर्यमप्याक्षिप्याह - रुचां पतिः सूर्योऽद्याप्येवंवृत्तेऽपि न तपति । नोदेतीत्यर्थः । किं कुर्वन् । सरोजानां पद्मानामलिमयं भ्रमररूपमन्तःशल्यमन्तः स्थितलोहभागं कर्षन्बहिः कुर्वन्सन् । अयस्कान्तमणिवदिति समाकर्षणमात्रदृष्टान्तः । यथायस्कान्तो मणिविशेषोऽयो लोहमाकर्षति तथेत्यर्थः । यद्वा सरोजानामन्तः पद्माभ्यन्तरादलिमयं शल्यं कर्षन् । अन्तःशब्दोऽव्ययं पञ्चम्यन्तः | पञ्चम्याश्चाव्ययाहुक् । यद्वायो लोहकान्तमणिर्लोहाकर्षणमणिः । सरोजानामित्यादिनादित्योद्गमो न वृत्त इति सूच्यते । आदित्योदये सति पद्मविकासस्तद्विकासे च तत्र स्थितानामलीनां बहिनिःसरणमिति स्वरूपानुवादः । 'विकर्तनार्कमार्तण्डमिहिरारुणपूषणः' इत्यमरः । 'उपलः प्रस्तरे रत्ने' इति मेदिनीकरः । इदानीमविनाभाविलिङ्गमाह-जाता इति । पक्को यः पलाण्डुः 'पियाजु' इति प्रसिद्धस्तद्वत्पाण्डुर्धूसरा मधुरा मनोहरा च या कान्तिस्तत्क्षेपिकास्तारका जाता वृत्ताः । किंचन रुचः किंचिद्दीप्तयः प्राचीं पूर्वी दिशमङ्करयन्त्युद्धे
For Private and Personal Use Only