________________
Shri Mahavir Jain Aradhana Kendra
५६
अपि च ।
www.kobatirth.org
अपि च ।
काव्यमाला ।
प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिका संप्रति द्वे तिस्रो रमणीयमम्बरमणेर्घामुच्चरन्ते रुचः । सूक्ष्मोच्छ्वासमपीदमुत्सुकतया संभूय कोषाद्बहिर्निष्क्रामद्धमरौघसंभ्रमभरादम्भोजमुज्जृम्भते ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां
कुर्वाणा समकोचयद्दशशतान्यम्भोजसंवर्तिकाः ।
रत्वेन रूपणम् । अङ्कुरपदप्रक्षेपोऽतिलौहित्यप्रकटनार्थ: । 'मकि मण्डने' | 'मकेरुट् नलोपश्च' इति न्यासकारमतेन मकुट इति भवति । 'मकुटं मुकुटं विदुः' इति शब्दभेदान्मुकुटशब्दोऽप्यस्तीत्यवधेयम् । अनेन पद्येनारुणोदयः सूचितः । 'अङ्कुरोऽभिनवोद्भिदि' इत्यमरः । ‘चक्रवालं तु मण्डलम्' इति च । कलिकात्रोटने निन्दाश्रवणाद्विकसितानामेव कुसुमानां त्रोटने बोधिते तानि विकसितानि न वेति ज्ञातुं सर्वतोऽवलोकनमपूर्वं प्रकटयन्सूर्यकिरणानां किंचिदुदयमाह – प्राचीत्यादि । अम्बरमणेरादित्यस्य द्वे द्विसंख्याकारितस्रस्त्रिसंख्याका रुचः किरणा रमणीयं यथा स्यादेवं द्यामुच्चरन्ते । आकाशं प्रति गच्छन्तीत्यर्थः । ‘उदश्चरः' इत्यादिना तङ् । कीदृश्यः । प्राच्या दिशो विलासार्थं कर्णिका कर्णाभरणं या कमलिनी पद्मिनी तस्याः संवर्तिका नवदलानीव । एतदुक्तं भवति - प्राचीविलासिन्या पद्मदलभ्रमादभिनव सूर्यकिरणा एवाभरणीकृता इति भावः । यद्वा प्राच्या दिशो विभ्रमेण विलासेन कर्णिकाः कर्णालंकाराः । ' कर्णललाटात्कनलंकारे' इति कन् । कमिलिनीसंवर्तिकाः कमलिनीनवपत्राणि । यद्वा संवर्तयन्ति प्रकाशयन्ति संवर्तिकाः । वुल् । प्रकाशिका इत्यर्थः । अनयोर्विशेषणसमासः । भिन्नमेव वा पदम् । तस्य कार्यमाह–अल्पकिरणोदयात्सूक्ष्मोच्छ्रासमल्पप्रकाशमपीदमम्भोजं पद्ममुज्जृम्भतेऽत्यर्थं विकसति । न तु किंचिदुन्मीलितं सत् । कुतो हेतोरत्यन्तं विकसतीत्यत आह — कस्मात् । संभूय मिलित्वोत्सुकतयोत्कण्ठितत्वेन कोषात्कुड्मलाद्वहिर्निष्क्रामन्निर्गच्छन्यो भ्रमरौघस्तस्य संभ्रमभरात्त्वरातिशयात् । यद्वा सूक्ष्मोच्छ्वासं संभूय प्राप्य । 'संभूतिर्वर्तने प्राप्तौ इति भरतः । अल्पदीधित्युदयात्किंचिद्विकसितं पद्ममनन्तरमेकदैव बहिर्गच्छद्भिर्भ्रमरैरत्यन्तविकासः कृत इति तात्पर्यम् । निष्क्रामदिति 'क्रमः परस्मैपदेषु' इति दीर्घत्वम् । 'कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि । क्रमुकादिच्छदांशेऽब्जे वराटे कर्णभूषणे ॥' इति विश्वः । ' संवर्तिका नवदलम्' इति च । संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि॥' इत्यपि । सूर्यकिरणाः क्रमेणोद्गच्छन्त इत्यत्र परिहासपूर्व मानमाह - एकद्वीति । अस्तं यतामस्तं गच्छतामेषां किरणानामेकद्विप्रभृतिक्रमेणैक द्व्यादिरूपेण गणनामिव कुर्वाणा
For Private and Personal Use Only