________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
अनर्घराघवम् । (सविनयविलक्षस्मितं च ।) राजर्षे, प्रत्यासीदति दीक्षाप्रवेशसमयः । तदेवंविधमधुरगोष्ठीभङ्गनिष्ठुराणां प्रथमे तावद्वयमेव भवितुमिच्छामः ।
(दशरथो रामलक्ष्मणाववलोक्य बाष्पभरोत्तरङ्गितलोचनो मुनि प्रति
_ 'भगवन्' इत्य?के वाचःस्तम्भं नाटयति ।) वामदेवः-(ससंभ्रमम् ।) भगवन्कौशिक, साधय । शिवाः सन्तु पन्थानो वत्सयो रामलक्ष्मणयोः ।
(इत्युत्थाय सर्वे यथोचितमाचरन्ति ।) विश्वामित्र:-एवमास्यतां भवद्भिः । (इति राजपुत्राभ्यामनुगम्यमानो निकान्तः।)
दशरथ:--(दीर्घमुष्णं च निःश्वस्य ।) वामदेव, नूनमिदानीमस्मानिव भगवन्तमपि कौशिकमकारणवत्सलं वत्सो मे रामभद्रः
क्वचिदस्मद्वियोगार्तिदुःखी दुःखाकरिष्यति ।
अपूर्वविषयालोकसुखी च सुखयिष्यति ॥ ५७ ।। वामदेवः-(विहस्य ।) राजर्षे, वयं वा कौशिको वेति क पुनरेष' कक्षाविभागो रामभद्रमाधुर्यस्य । पश्य ।।
यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता ।
'प्रथमचरम-' इति जसि विकल्पेन सर्वनामसंज्ञा । उत्तरङ्गित चञ्चलम् । साधय गच्छ। “साधयेति च गत्यर्थः' इति भरतः । यद्वा साधय कार्यमिति शेषः। शिवाः कल्याणयक्ताः। निःश्वस्येति । रामस्यापि विश्लेषो मयीति भावः । अकारणवत्सलं निरुपधिबन्धुम् । क्वचिदिति । 'वत्सो मे रामभद्रो भगवन्तं कौशिकमपि' इति मस्तकस्थमादायास्मदियोगाास्मद्विश्लेषपीडया दु:खी सन्दुःखाकरिष्यति दुःखितं करिष्यति। 'दुःखात्प्रातिलोम्ये' इति डाच् । अपूर्वविषयस्य, अर्थात्तपोवनविवर्तस्य, आलोकनेन सुखी सन्सुखयिष्यति सुखिनं करिष्यति । विषयो वस्तु । 'अर्तिः पीडाधनुष्कोट्योः' इत्यमरः । कक्षा स्पर्धा । 'कक्षा प्रकोष्टः स्पर्धा च' इति । माधुर्यस्य सौशील्यस्य । वयं वा कौशिको वेत्यादि पोषकं सज्जनानामनिमित्तं प्रेमोत्थापयितुमाह-यदिन्दोरिति । अपां निधिः समुद्र इन्दोश्चन्द्रस्य यद्व्यसनं विपत्तिमुदयमुच्छ्रायं वान्वेत्यनुगच्छति, तत्रा
१. 'दशरथः-(सविनयविलक्षस्मितम् ।); विश्वामित्रः-राजर्षे' इति पाठः. २. 'तावद्भवितुम्' इति पाठः, ३. 'उत्तम्भितलोचनः' इति पाठः.
For Private and Personal Use Only