________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
गायन्ति कञ्चुकविनिद्रुतलोमहर्ष
खेदोर्मयस्तव गुणानुरगेन्द्रकन्याः ॥ ५५ ॥ विश्वामित्र:-सखे दशरथ, प्रियमपि तथ्यमाह वैतालिकः । मन्दोद्भूतैः शिरोभिर्मणिभरगुरुभिः प्रौढरोमाञ्चदण्ड
स्फायन्निर्मोकसंधिप्रसरदविगलत्संमदखेदपूराः । जिह्वायुग्माभिपूर्णाननविषमसमुद्गीर्णवर्णाभिरामं
वेलाशैलाङ्कभाजो भुजगयुवतयस्त्वद्गुणानुद्गृणन्ति ॥ ५६ ॥ रोऽल्पकुटी तामध्यासीनाः सर्पराजकन्यास्तव गुणान्गायन्ति । आशीभिर्देष्ट्राभिरभ्यधिकमत्यन्तं भूषितोऽलंकृतो यो भोगः फणा तद्वत्यः । अधिकभूषणममृतरसेन निर्विषत्वात् । कीदृशीभिः । प्रत्यक्षरमक्षरेऽक्षरे । प्रतिवर्वीप्सायाम् । क्षरितो यः सुधारसस्तेन निर्विषाभिः।सुधारसेन निर्विषत्वमुचितम् । कञ्चकेन निर्मोकेन विनिबुतो गोपितो लोमहर्षो रोमो. द्मः खेदोर्मिधर्मकल्लोलश्च यासां ताः । 'पटीरश्चन्दनतरौ' इति मेदिनीकरः। कुटीर इत्यत्र 'कुटीशमीशुण्डाभ्यो रः' । 'अल्पा कुटी कुटीरः स्यात्' इत्यमरः । 'अधिशीस्थासां कर्म' इति कर्मता । 'भोगः सुखेऽवने चाहेः शरीरफणयोरपि।' इति मेदिनीकरः। 'स्वेदस्तु स्वे. दने धर्मे' इति च । 'आशीः स्यादहिदंष्ट्रायाम्' इत्यपि । प्रियमपीत्यत्रापिशब्द एकत्र प्रियतथ्ययोर्दुर्लभतामाह । तथा च किरातार्जुनीये-'हितं मनोहारि च दुर्लभं वचः' इति। 'वैतालिका बोधकरा बन्दिनः स्तुतिपाठकाः' इत्यमरः । वैतालिकवाक्ये तथ्यत्वं स्थापयति-मन्दोद्धृतैरिति ।जिह्वायुग्मेनाभिपूर्ण यदाननं मुखम् । सर्पाणां द्विजिहत्वात्। तेन विषमं कृत्वा समुद्गीर्णो यो वर्णोऽक्षरं तेनाभिरामं मनोहरं यथा स्यादेवम् । नारीणामविस्पष्टवचनानामेव रमणीयत्वात् । भुजगयुवतयस्त्वद्गुणानुगुणन्ति गायन्ति । वेलायां समुद्रतीरे यः शैल: पर्वतस्तस्याङ्कभाजः पर्वतमध्यस्थाः । 'भजो ण्विः' शिरोभिर्लक्षिताः। इत्थंभूतलक्षणे तृतीया । मणिभरेण गुरुभिर्गुरुतरैः । तादृशसर्पशिरसि मणेरवश्यंभा. वात् । अत एव मन्दोद्भूतैर्लघुलघु चालितैः । प्रौढ उद्गतो रोमाञ्चो दण्ड इव रोमाञ्चदण्डः । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समासः । तेन स्फायन्वृद्धिं गच्छन् । आत्मनेपदानित्यत्वादत्र न तट । यो निर्मोकसंधिः कञ्चुकावकाशस्तस्मात्प्रसरनविगलंश्च संमदो हर्षः खेदपूरो धर्मप्रवाहो यासां तास्तथा। प्रसरदविगलदित्येतयोः संमदखेदपूरयोर्यथाक्रममन्वयः । यद्वोभयमुभयत्रान्वयि । भुजगवधूनां हर्षातिशयेन रोमाञ्चदण्डो वृत्तस्तेन निर्मोकसंधिरुच्छसितः। अनयोश्च मध्यं खेदपूरैः पूरितं संध्यभावात्तन्न गलितमिति निर्गलितोऽर्थः । 'नाटकाङ्केऽपि संधिः स्यादवकाशेऽपि चेष्यते' इति धरणिः । 'प्रमोदामोदसंमदाः' इत्यमरः । 'वेला तत्तीरनीरयोः' इति च । प्रत्यासीदति प्रत्यासन्नो भवति । दीक्षा यज्ञः । निष्ठुराणामिति निर्धारणे षष्टी । प्रथमे आद्याः ।
For Private and Personal Use Only