________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः ]
अऩर्धराघवम् ।
वामदेव: - इमौ तौ रामलक्ष्मणौ । (इत्यर्पयति ।)
. (विश्वामित्रः सादरं गृह्णाति ।) (नेपथ्ये शङ्खध्वनिः ।)
(वामदेवो निमित्तमनुमोदमानो दशरथमुल्लासयति ।)
(पुनर्नेपथ्ये)
वैतालिकः -- सुखाय माध्यंदिनी संध्या भवतु देवस्य । संप्रति हि किरति मिहिरे विष्वद्रीचः करानतिवामनी स्थलकमठवद्देहच्छाया जनस्य विचेष्टते ।
गजपतिमुखोद्गीर्णैराप्यैरपि त्रसरेणुभिः
शिशिरमधुरामेणाः कच्छस्थलीमधिशेरते ॥ ५४ ॥
For Private and Personal Use Only
४९
अपि चेदानीं पटीरतरुकोटर कुटीरमेध्यासीनाः प्रत्यक्षरस्रुतसुधारसनिर्विषाभिराशीर्भिरभ्यधिक भूषितभोगभाजः ।
निगृह्यमाणोऽभिभूयमानः । दशरथो वामदेवस्य मुखमीक्षत इति । इमौ तौ रामलक्ष्मणौ । मुनये समर्प्यतामिति भावः । निमित्तं शुभलक्षणम् | नेपथ्ये वैतालिकः पठति । सुखाय सुखार्थम् । तादर्थे चतुर्थी | माध्यंदिनीति मध्यं दिनस्य मध्यंदिनम् । यद्वा ' मध्य मध्यं दिन चास्मात्' इति दिनण् । मध्यशब्दस्य मध्यमादेशः । मध्यंदिनस्येयं माध्यंदिनी । अण् । ङीप् । वैतालिक एव मध्याह्नं वर्णयति —– किरतीति । मिहिरे सूर्ये विष्वद्रीचः सर्वतो गमनशालिनः करान्किरति क्षिपति सति जनस्य देहच्छाया स्थलस्थितकच्छपवद्विचेष्टते चलति । अतिवामन्यतिखर्वा । मध्याह्ने पादप्रदेशेऽतिसूक्ष्मा छाया दृश्यत एवेति भावः । अपिः समुच्चये । एणा हरिणा अपि कच्छस्थलीं जलबहुल प्रदेशमधिशेरते । तत्र स्वपन्तीत्यर्थः । कीदृशीम् । हस्तिराजमुखेनोद्गीर्णैः क्षिप्तैराप्यैर्जलीयेस्त्रसरेणुभिद्यणुकत्रयारब्धैर्द्रव्यैः शिशिरमधुरां शीतलां मनोहरां च । विष्वद्रीच इति विष्वगञ्चतीत्यर्थे 'ऋत्विग्-' इत्यादिना क्विन् । विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये' इत्ययादेशे रूपम् । अतिवामनीति गौरादित्वान्ङीष् । अधिशेरत इति 'शीङो रुट्' | कच्छस्थलीमिति 'अधिशीङ् -' इत्यादिना कर्मता । 'मिहिरारुणपूषण:' इत्यमरः । 'विष्वङ् विष्वगञ्चति' इति च । 'परमाणुश्च व्यणुकं त्रसरेणुस्ततो रजः । त्रसरेणुभिरष्टाभिरथ रेणुरिति स्मृतः' इति शिक्षा । 'कमठः कच्छपे पुंसि' इति मेदिनीकरः । ‘जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । 'पृषतैणर्ण्य रोहिताः' इत्यपि । अपि चेदानीमिति । पटीरतरुश्चन्दनवृक्षस्तस्य यः कोटरो रन्ध्रः स एव कुटी
१. ‘शङ्खध्वनिर्मङ्गलगीतिश्च' इति पाठः २. 'मध्यमध्यासीनाः' इति पाठ:.