________________
Shri Mahavir Jain Aradhana Kendra
४८
अपि च ।
www.kobatirth.org
काव्यमाला ।
त्वं तास्ताः स्मृतवानृचो दशतयीस्त्वत्प्रीतये यज्वभिः खाहाकारमुपाहितं हविरिह त्रेतामिराचामति । त्वां क्षीरोदजलेशयं ऋतुलिह: पृथ्वीमवातीतर
नुद्वृत्ता दशकंधरप्रभृतयो निग्राहितारस्त्वया ॥ ५३ ॥ वामदेव: - ( सस्मितम् 1) वत्सौ, अयमत्रभवान्भवन्तौ नेतुमागतः । रामलक्ष्मणौ — यदभिरुचितं भवते ताताय च ।
(दशरथस्तौ सस्नेहमादाय 'भगवन्कौशिक' इत्यर्वोक्ते मन्यूत्पीडनिगृह्यमाणकण्ठो वामदेवस्य मुखमीक्षते ।)
Acharya Shri Kailassagarsuri Gyanmandir
बन्धन्याम्' इति धरणिः । वसिष्ठस्तुतिप्रसङ्गाद्रामं स्तुत्वा स्वातन्त्र्येण विष्णुरूपतया पुनस्तं स्तौति - त्वमिति । त्वं तास्ता अनिर्वचनीयखरूपा दशतयीनामधेया ऋचः स्मृतवान् । ब्रह्मरूपित्वात् । दशतयीनामधेया ऋचो ऋग्वेदे बह्वयः सन्ति । यद्वा दशतयीर्दशावयवाः ॥ ‘संख्याया अवयवे तयप्' । त्वत्प्रीतये यज्वभिर्याज्ञिकैः स्वाहाकारं स्वाहाकृत्वोपाहितं दत्तं हविर्घृतादि त्रेतारूपोऽग्निस्त्रेताग्निराचामति खादति । 'चमु अदने' | 'ष्ठिवुक्कमुचमां शिति' इति दीर्घः । स्वाहाकारमिति 'द्वितीयायां च' इति णमुल् । ननु वीप्सायां णमुल्विधानात्कथमत्रावीप्सायां तदिति चेन्न । 'अनुदात्तं पदमेकवर्जम्' इति ज्ञापकादवीसायामपि णमुल विधानात् । त्रेताग्निरिति 'दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः । अग्नित्रयमिदं त्रेता' इत्यमरः । अत्र यद्यपि त्रेताशब्देनैवाग्नित्रयं लभ्यते तथाप्यग्निशब्दोपादानं स्फुटार्थम् । यथा करिकलभ इत्यत्र करिशब्द इति । यद्वा त्रेताशब्दस्य नानार्थत्वादग्निस्खरूपत्रे ताबोधनार्थमग्निपदम् । क्षीरोदस्य समुद्रस्य जलेशयं जलशायिनं त्वां ऋतुलिहो देवाः । दुष्टदानवनिग्रहार्थमित्यर्थात् । अवातीतरन्नवतारितवन्तः । क्षीरोदशदेन रूढ्या समुद्र एवोच्यते । यद्वा जलशब्देन लक्षणया क्षीरमुच्यत इत्यनयोर्न सामानाधिकरण्यविरोधः । जलेशयमिति 'अधिकरणे शेतेः' इति टः । ' शयवासवासिष्वकालात्' इत्यलुक् । अवातीतरन्नित्यवत रेर्ण्यन्तालुङ् चङ् । ण्यन्तत्वाद्विकर्मकता । उद्वृत्ता गतचरित्रा गर्विष्ठा वा । दशकंधरप्रभृतयो रावणादयस्त्वया निग्राहितारस्त्वयैव निगृहीतव्याः । एतेन रावणवधपर्यन्तमस्माकमुद्देश्यमिति सूचितम् । निग्राहितार इति प्रहेर्लुटि कर्मणि तङि रसि 'स्यसिच् -' इत्यादिना चिण्वद्भावाद्वृद्धिरिट् च । अयं कौशिकः । भवते ताताय चेत्यत्र ' रुच्यर्थानां प्रीयमाण:' इति संप्रदानता । मन्युर्दैन्यम् । दुःखमिति यावत् । 'मन्युर्दैन्ये ऋतौ कुधि' इति विश्वः । उत्पीडः समूह उद्गमो वा । २. केषुचित्पुस्तकेषु 'सस्मितम्' इति नास्ति.
१. 'ऋतुभुजः' इति पाठान्तरम्. ३. 'ताताय भवते च' इति पाठान्तरम्.
For Private and Personal Use Only