________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ अङ्कः ]
अनर्घराघवम् ।
(रामलक्ष्मणावुपसर्पतः 1) देशरथः - वत्सौ, भगवानेष निःशेषभुवनमहनीयो महामुनिः कौशिकः
Acharya Shri Kailassagarsuri Gyanmandir
प्रणम्यताम् ।
रामलक्ष्मणौ – (उपसृत्य 1) भगवन्विश्वामित्र, सावित्रौ रामलक्ष्मणाव - भिवादयेते ।
विश्वामित्रः – वत्सौ, आयुष्मन्तौ भूयास्ताम् । (इति भुजाभ्यां गृहीत्वा रामं निर्वर्ण्य च सबहुमानम् । आत्मगतम् ।) वसिष्ठो तैर्मन्त्रैर्दधति जगतामाभ्युदयिकीं
धुरं संप्रत्येते दिनकरकुलीनाः क्षितिभुजः ।
गृहे येषां रामादिभिरपि कलाभिश्चतसृभिः
स्वयं देवो लक्ष्मीस्तनकलशवारीगजपतिः ॥ ५२ ॥
४७.
For Private and Personal Use Only
सामैश्वर्य परिणामः । अत्राप्यजलिङ्गता । वैनयिकीरिति 'विनयादिभ्यष्ठक्' इति ठक् । उपसर्पतः समीपं गच्छतः । महनीयः पूजनीयः । सावित्रौ सूर्यापत्ये । 'तस्यापत्यम्' इत्यण् । भूयास्तामित्याशीर्लिङ् । मध्यमपुरुषद्विवचनम् । निर्वर्ण्य दृष्ट्वा । तदुक्तम् —'समौ निर्वर्णननिभालनौ' इति । सबहुमानं प्रचुरसंमानं यथा स्यादेवम् । विश्वामित्रश्छलतो वसिष्ठं स्तौति – वसिष्ठोक्तैरिति । एते दिनकरकुलीनाः सूर्यवंशजाताः क्षितिभुजो राजानः संप्रति वसिष्ठोकैर्मन्त्रैर्जगतामाभ्युदयिकीमभ्युदयप्रयोजनां धुरं भारं दधति वहन्ति । जगतामाभ्युदयिकभारधारणे हेतुमाह - येषामिति । येषां राज्ञां गृहे रामादिभी रामलक्ष्मणभरतशत्रुघ्नरूपाभिश्चतसृभिः कलाभिश्चतुर्भिरंशैर्देवो नारायणः स्वयमस्ति साक्षादस्ति । अस्तीत्यध्याहार्यम् । 'यत्र क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयोक्तव्यः' इति भाष्यकारवचनात् । देवः कीदृशः । लक्ष्म्याः स्तनावेव कलशौ तावेव वारी गजबन्धनी तत्र गजपतिर्हस्तिराजः । इह कलशाभ्यां स्तनौ रूप्येते, वार्या च कलशौ इति रूपकरूपकोऽयमलंकारः । यदाह दण्डी - ' मुखपङ्कजरङ्गेऽस्मिन्भ्रूलतानर्तकी तव । लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥' इति । 'स्तनविषमवारी -' इति पादे विषमा कठिना वारी विषमवारी तस्या गजपतिरिव । अत्र तु रूपकम् । एतेन 'विशेषणद्वारा -' इति न्यायेन नारायणोऽत्र लभ्यते । आभ्युदयिकीमिति 'तदस्य प्रयोजनम्' इति ठक् । कुलीना इत्यत्र 'कुलात्खः' इति खः । न च 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तदन्तत्वाभावात्खप्रत्ययाभाव इति वाच्यम् । परिभाषाया ज्ञापकमूलत्वादनित्यत्वात् 'ज्ञापकसिद्धं न सर्वत्र' इति वचनात् । यद्वा दिनकरा इव कुलीना दिनकरकुलीनाः । 'वारी स्याद्गज१. 'वामदेव:' इति पाठान्तरम्. २. ' च निर्वर्ण्य' इति पाठान्तरम्.