________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
काव्यमाला।
अयं कः संबन्धो यदनुहरते तस्य कुमुदं
विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥ ५८ ।। दशरथः-(विमृश्य ।) एवमेतत् ।
रत्नाकरो जनयिता सहजश्च वर्गः
किं कथ्यताममृतकौस्तुभपारिजाताः । किं तैरचिन्त्यमिह तत्पुनरन्यदेव
तत्त्वान्तरं कुमुदबन्धुरसौ यदिन्दुः ॥ ५९ ।। (पुनरवलोक्य ।) कथं लोचनपथमतिकान्तः सरामलक्ष्मणो भगवान् । तद्वयमपि वत्सप्रवासदुर्मनायमानां दक्षिणकोशलेश्वरसुतां देवीमुपेत्य सान्त्वयामः ।
(इति निष्क्रान्ताः सर्वे ।) इति मुनीन्द्रसंवादो नाम प्रथमोऽङ्कः।
नुगमेऽयमुपाधिः कारणम् । प्रयोजको धर्म इति यावत् । जनिकर्तुर्जननकारणस्य पितुः प्रकृतिता स्वभावो जयति । तत्र जन्यजनकभाव एव संबन्धः । जनकः समुद्रः, जन्य इन्दुः, अतो जन्यवृद्धिक्षयौ जनको धत्त इत्युचितमेव । यद्वा जननकारणस्य प्रकृतिकार्य भवति । तथा च समुद्रो जनकः सन्वृद्धिक्षयवानिति तज्जन्येऽपि वृद्धिक्षयौ युज्यते । उपाधि विनापि व्यसनोदयौ दृष्टावित्याह-कुमुदं कर्तृ तस्य चन्द्रस्य यद्व्यसनमुदयं वानुहरतेऽनुगच्छत्यनुकरोति वा । चन्द्रे ह्युदयति सति कुमुदमुन्मीलति, तस्मित्रस्तमिते निमीलति तदित्यनुगमेऽयं कः संवन्धो जन्यजनकभावादिः । अपि तु न कोऽपि । कथमेवमत आह-विशुद्धा इति । ध्रुवं तर्कयामि । विशुद्धाः शुद्धानामभिसं. धानं विना प्रिया भवन्तीत्यर्थः । तथा च यद्यप्यत्र न संवन्धस्तथापि निरुपाधिरेव चन्द्रकुमुदयोः साहजिकी प्रीतिरिति भावः । प्रकृतेऽपि रामस्य तादृश एव गुणविभवो यत्सन्सुिखयतीति । अनुहरत इति 'हरतेर्गतताच्छील्ये' इति तङ् । 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः । 'जनिरुत्पत्तिरुद्भवः' इत्यपि । 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिखभावयोः' इति मेदिनीकरः । 'ध्रुवं निश्चिततर्कयोः' इति विश्वः। प्रणयः प्रेम्णि विश्वासे' इति च । वामदेवोक्तमनुवदति-रत्नाकर इति । अस्य चन्द्रस्य रत्नाकरो जनयितोत्पादकः । सहजः सोदों वर्गोऽमृतादयः किं कथ्यताम् । तदुपमानाभावात् । अमृतादिभिः सहजैस्तैः किम् , अपि तु न किमपि । इह पुनस्तदन्यदेवाचिन्त्यमचिन्तनीयखरूपं तत्त्वान्तरं स्वभावान्तरं स्वभावविशेषो यदसाविन्दुः कुमुदबन्धु
१. 'विमृश्य' इति पुस्तकान्तरे नास्ति. २. 'पुरोऽवलोक्य' इति पाठान्तरम्.
For Private and Personal Use Only