________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
काव्यमाला।
(नेपथ्याभिमुखः ।) कः कोऽत्र भोः ।
(प्रविश्य) दौवारिकः-किमाज्ञापयति देवः । दशरथः-आहूयतां रामभद्रः । वामदेवः-लक्ष्मणश्च ।
दशरथ:--(सम्मितम् ।) ऋषे, पृथक्प्रयत्नापेक्षी नायमर्थः । न खलु प्रकाशमन्तरेण तुहिनभानुरुजिहीते ।
___ (दौवारिको निष्क्रान्तः ।)
__ (ततः प्रविशतो रामलक्ष्मणौ ।) रामः-(सहर्षम् ।)
सुराधीशक्रोधाज्जगदपरथा कर्तुमपरे
पुराणब्राह्मणो भुवनपितरः सप्त च कृताः । धृतास्तुष्टेनामी बहिरपि च वैश्वानरपथा
कथा पौराणी यचरितमितिह स्म प्रथयति ॥ ४७ ॥ कथं सोऽपि भगवान्विश्वामित्रः खयमम्माभिरुपचरिष्यते । (इति पपाञ्चाल्याः पञ्चपाण्डवस्वामित्वेऽपि नासतीत्वं वृत्तमिति । एतेन या मम पतिव्रता कैकेयी तस्या वृत्तं चरित्रं रामप्रवासभरतराज्यप्राप्तिरूपं मेदिनी चरत्वनुसरविति सूचितमिति गण्डः । गण्डलक्षणं तु भरते.--'अनावरणभाव्यर्थवादो गण्ड इति स्मृतः' इति । 'वृत्तं वृत्तेऽप्यधीते च चरित्रेऽपि' इति विश्वः । नेपथ्य इति । तल्लक्षणमहमलिखं प्रागेव । दौवारिक इत्यत्र द्वारे चरतीति ठक् । 'द्वारादीनां च' इत्यैच्। अयमों लक्ष्मणागमनरूपः। उनिहीते । उदेतीत्यर्थः । 'ओहाङ् गतौ' । 'ई हल्यघोः' । अभ्यासस्य 'भृञामित्' इतीत्वम् । सुराधीशेति । पौराणी पुराणसंवन्धिनी इतिह कथा ऐतिह्यकथा यचरितं विश्वामित्रचरितं प्रथयति ख्यातं कारयति स्म । तत्किमित्यत आह-मुराधीशेति । मुराधीशस्येन्द्रस्य क्रोधादपरथान्यथा जगत्कर्तुमपरेऽन्ये पुराणब्रह्माणः । अग्निष्वात्ताद्यपेक्षयापरत्वम्। सप्त च भुवनपितरो मरीच्यत्रिप्रभृतयः सप्तर्षयः कृताः । ततो नानादेवप्रणिपातात्तुष्टेन संतोवं गच्छतामुना कौशिकेनामी ब्रह्माणो वैश्वानरपथावहिष॑ताः । वैश्वानरपथ आकाशविशेषस्थानम्, यत्र सप्तर्षयः सन्ति । यद्वा वैश्वानरपथोऽग्निपथस्तत्र सप्तर्षयः सन्ति तद्वहिरेव । यद्वा वैश्वानरपथाद्धविनाद्बहिरेव बाह्य एव वृताः । आहुतिभागिनो न कृता इत्यर्थः । प्रथयतीति । 'प्रथ आख्याने घटादिः । 'लट् स्मे' इति भूते लट् । रूपयन्ना
१. 'खयमुपचरिष्यतेऽस्माभिः' इति पाठान्तरम्.
For Private and Personal Use Only