________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः] अनर्घराघवम् ।
४५ रिकामन्पुरोऽवलोक्य हर्षातिशयं रूपयन् ।) नूनं विनयनम्रयोस्तातवामदेवयोस्तृतीयः प्रशान्तपावनीयाकृतिः स भगवान्विश्वामित्रो भविष्यति । लक्ष्मणः-(साश्चर्यस्मितम् ।) आर्य,
अयमयमीदृशप्रशमविश्वसनीयतनु
भुवनभयंकरीः कथमधत्त रुषोऽपि मुनिः । स्थितमिदमेव वा मृदुमनोज्ञतुषारतमा
स्तमसि सति ज्वलन्ति सहसैव महौषधयः ॥ ४८ ॥ रामः-वत्स लक्ष्मण, एवं दुरवगाहगम्भीराश्चित्रीयन्ते महान्तः । अपि च । व्रतविहतिकरीभिरप्सरोभिः सह जगदस्य निगृह्णतो गृणन्ति । नमदमरशिरःकिरीटरोचिर्मुकुलितरोषतमांसि चेष्टितानि ॥ ४९ ॥
टयन् । नूनं निश्चये । पूयतेऽनयेति पावनी । करणे ल्युट् । लक्ष्मणस्य कनिष्ठत्वाद्राम प्रत्यार्यपदेनाभिधानम् । तदुक्तं भरते-'विप्रामात्याग्रजा आर्या नटीसूत्रकृतौ मिथः'इति। अयमयमिति । 'संभ्रमे द्वे भवतः' इति द्विर्वचनम् । अयं मुनिर्विश्वामित्रः कथं रुषोऽपि क्रोधानप्यधत्तेति योजना । ईदृशेन प्रशमेन शान्त्या विश्वसनीयतनुरपीत्याश्चर्यस्फोरणम् । रुषः कीदृशीः । भुवनभयंकरीः । 'मेघर्तिभयेषु कृत्रः' इति खश् । 'अरुद्वैिषदजन्तस्य-' इति मुम् । कथमित्याक्षेपसमाधानाय खयमेवार्थान्तरं न्यस्यति-स्थितमिति । इदमेव वा स्थितम् । युक्तमेतदित्यर्थः । महौषधयो दिव्यलतास्तमस्यन्धकारे सति सहसैव हठेनैव ज्वलन्ति । कीदृश्यः । मृयः सुकुमाराः, मनोज्ञा रमणीयाः, तुषारतमा अतिशीतलाः । एतादृश्योऽपीत्यर्थः । अथ च तमसि क्रोधे । लक्ष्मणवाक्यमनुमोदते-एवमिति । दुरवगाहोऽनवगाह्यः । गम्भीरो महान् । चित्रीयन्त आश्चर्य कुर्वन्ति । 'नमोवरिवश्चित्रङः क्यच् । डिस्करणसामर्थ्यात्तङ् । दुरवगाहगम्भीरमहिमत्वमेव स्फोरयति-व्रतेत्यादि । अस्य कौशिकस्य चेष्टितानि कर्मभूतानि पौराणिका गृणन्ति वदन्ति । 'गृ शब्दे' क्रयादिः । कीदृशानि । नमन्तो येऽमरा देवास्तेषां शिरःकिरीटानां शिरोमुकुटानां यद्रोचिस्तेजस्तेन मुकुलितानि संकुचितानि रोषरूपाणि तमांसि यत्र तानि । व्रतविहतिकरीभिस्तपोनाशकारिणीभिरप्सरोभिः सह जगद्विष्टपं
१. 'विलोक्य'; 'अवलोक्य च' इति पाठान्तरम्. २. 'तृतीया प्रशान्तपावनीयमाकृतिः' इति पाठन्तरम्. ३. केषुचित्पुस्तकेषु 'आर्य' इति नास्ति. ४. 'गम्भीरचरिताः' इति पाठान्तरम्.
अन० ५
For Private and Personal Use Only