________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३
१ अङ्कः]
अनर्घराघवम् । दशरथः–वामदेव, एवमेतत् ।
ध्यानमयदृष्टिपातप्रमुषितकालाध्वविप्रकषेषु ।।
विषयेषु नैष्ठिकानां सर्वपथीना मतिः क्रमते ॥ ४४ ॥ (विमृश्य ।)
क्रियाणां रक्षायै दशरथमुपस्थाय विमुखे
मुनौ विश्वामित्रे भगवति गते संप्रति गृहान् । तपोलेशक्लेशादुपशमितविघ्नप्रतिभये
__ प्रवृत्ते यष्टुं वा रघुकुलकथैवास्तमयते ॥ ४५ ॥ (मुनि प्रति ।) जगद्गुरो गाधिनन्दन,
त्वं चेद्दीक्षिष्यमाणो मे रामभद्रं प्रतीक्षसे । तन्नः पतिव्रतावृत्तमियं चरतु मेदिनी ॥ ४६ ॥
काभिलषितान्पूरयितुं संदिशता। तथा च रामोऽवश्यं दातुमर्ह इति भावः । ध्यानेति । नैष्ठिकानां निष्ठावतां मुनीनां मतिर्विषयेषु कार्येष्विन्द्रियार्थेषु सर्वपथीना सर्वपथव्यापिनी। सर्वकुलमार्गव्यापिनीति यावत् । क्रमते वृद्धिं याति । न केनापि प्रतिवध्यत इत्यर्थः । 'वृत्तिसर्गतायनेषु क्रमः' इति तङ् । कीदृशेषु । ध्यानमयी या दृष्टिस्तस्याः पातेन प्रमुषितो दूरीकृतः कालस्यातीतानागतस्याध्वनो मार्गस्य विप्रकर्षों दूरत्वं येषु । योगज्ञानखरूपेण चक्षुषा सर्वं पश्यतीत्यर्थः । पूर्व कूर्मराजेत्यादिना सामान्यतोऽनिटमात्रमाशङ्कितम, इदानीमतिक्रोधशीलात्तपस्विनोऽत्यन्तानिष्टमाशङ्कते-क्रियाणामिति । क्रियाणां यज्ञानां प्रकृतत्वात् । रक्षाय दशरथं मामुपस्थाय संगतीभूय भगवति विश्वामित्रे मुनी विमुखेऽप्राप्तकामेऽनन्तरं गृहान्गते ततस्तपोलेशक्लेशात्स्वल्पतपोव्ययादुपशमिते दूरीकृते विघ्नप्रतिभये विघ्नत्रासे । अथ मुनौ यष्टुं यज्ञं कर्तुं प्रवृत्ते सति रघुवंशकथास्तमयतेऽस्त नाशमेष्यत्येव । 'अय गो' वर्तमानसामीप्ये लट् । अस्तमिति मान्तमव्ययम्। तस्मादवश्यं रामो दातुमर्ह इति भावः । त्वमित्यादि । हे मुने, त्वं यदि दीक्षिष्यमाणो यज्ञ करिष्यन्रामं प्रतीक्षसे प्रत्यवेक्षकमिच्छसि, ततो नोऽस्माकमियं मेदिनी पतिव्रतावृत्तं पतिव्रताचरित्रमेकपतित्वं चरतु । चरति वा । तदा वर्तमानसामीप्ये लट् । पत्युव्रतं यस्याः सा पतिव्रता । तस्या वृत्तं चरित्रमेकपतित्वम् । अयमाशयः-य एवास्याः पती रक्षिता तहतवृत्तं चरितमनुगच्छति । पतिशब्दस्तु 'पा रक्षणे' पातेर्डतिः । तस्माद्रक्षणात्पतिः । तथा च राम एवास्याः पतिर्भवत्विति भावः । यद्यपि सर्वपतितया कुलटात्वं भवति, न तु पतिव्रतात्वम् , तथापि य एवास्या रक्षिता स एव पतिरिति नियमान दोषः । यथा
१. 'ज्ञानमय' इति पाठान्तरम्.
For Private and Personal Use Only