________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
काव्यमाला।
दशरथ:-( सस्मितम् ।) भगवन्कुशिकवंशकेतो, कस्य तलिनी तादृशी जिह्वा यस्त्वामपि ब्रुवाणमधरोत्तरेणाभिसंधत्ते । (अपवार्य ।) वामदेव, एवमत्रभवान्कौशिको ब्रवीति । वामदेवः-राजर्षे, किमत्र प्रष्टव्या वयम् ।
कौशिकोऽर्थी भवान्दाता रक्षणीयो महाक्रतुः ।
रक्षिता रामभद्रश्चेदनुमन्यामहे वयम् ॥ ४१ ॥ अपि च ।
जगतीभारखिन्नानां विश्रामो भवतामयम् ।
यद्यथाकामसंपत्तिप्रीतार्थिमुखदर्शनम् ॥ ४२ ॥ किं च विशेषेण ।
पूरयितुमर्थिकामान्मत्रावरुणेन गोत्रगुरुणा ते । संदिशता संदिष्टः समाधिदृष्टोऽयमेवार्थः ॥ ४३ ॥
च सा' इत्यमरः । केतुः पताका । तलिनी स्वच्छा । पटुतरेति यावत् । यद्वा विरला । यथा च विश्वः—'तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गकम्' इति । केचित्तु शक्तेति वदन्ति । अधरोऽधोवर्ती बाध्यः । उत्तरः श्रेष्ठो बाधकः । तथा च बाध्यबाधकभावेनेत्यर्थः । अभिसंधत्ते बाधितुमीहते विवदते वा । यद्वा कस्य ब्रह्मणस्तादृशी समर्था जिह्वा स एव तत्र समर्थः । 'कः प्रजापतिरुद्दिष्टः' इत्येकाक्षरः । अपवार्येति । 'रहस्यं तु यदन्यस्य परावृत्त्य प्रकाश्यते । नाट्यधर्मसमावेशात्स्मृतं तदपवारितम् ॥' इति भरतः। एवमिति । किमत्र विधेयमिति भावः । वामदेवो रामप्रदानौपयिक रूपमाह-जगतीति । भवतां रघुवंश्यानां यथाकामं यथेच्छं संपत्त्या प्रीतो योऽर्थी प्रार्थकस्तस्य मुखदर्शनं यदयं विश्रामः । श्रमोपशमहेतुरित्यर्थः । कीदृशानाम् । जगतीभारेण पृथ्वीभारेण खिन्नानाम् । रामभद्रप्रदानौपयिकं पूर्व कथितं संदेशमनुस्मारयति--किं चेति । अयमेव कौशिकागम. नानन्तरं रामभद्रप्रदानरूपो मैत्रावरुणेन वसिष्टेन 'हुतमिष्टं च तप्तं च' (१।१७)इत्यादिपूर्वोतेन त्वयि संदिष्टः। ननु तेनानागतोऽयमर्थः कथं ज्ञात इत्यत आह-समाधिना ध्यानेन दृष्टः । वसिष्ठादेशस्यावश्यकर्तव्यतामाह-गोत्रगुरुणेति । गोत्रं कुलम् । अर्थिकामान्प्रार्थ
१. 'अधरोत्तरैः' इति पाठान्तरम्. २. कौशिकेल्यादिश्लोकष्टीकाकारेण न व्याख्यातःकदाचित्प्रक्षिप्तः स्यात्. मूलपुस्तकेषु वर्तत एव.
For Private and Personal Use Only