________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनर्घराघवम् ।
४१ विश्वामित्र:-(विहस्य ।) सखे, तत्रभवन्तं मैत्रावरुणिमृर्षि पुरोधाय चरितब्रह्मचर्यव्रतस्य धनुर्वेदसंस्कारास्तावदस्य कृशाश्वप्रसादादस्माखायतन्ते ।
दशरथ:--(सविनयोपरोधम् ।) भगवन् , उच्छसितमपि रघुराजबीजिनां त्वदायत्तमेव, किमुत कार्मुकविद्यासंप्रदायः । शङ्के सहस्रकिरणकुलैकपक्षपातेनैव सहस्रं वत्सरान्भगवन्तं कृशाश्वमुपासीनो दिव्यास्त्रमन्त्रोपनिषदमध्यगीष्ठाः ।
विश्वामित्रः-अलं च ते रामभद्रेऽपि बालोऽयमित्यलीकसंभावनया । दिवस्पृथिव्योस्तिमिरतिरस्करिणीं तरणिरणुतरोऽपि तेजसा तिरस्करोति ।
क्षीरकण्ठो दुग्धपायी । बालक इत्यर्थः । मैत्रावरुणिं वसिष्टम् । पुरोधाय पुरोहितं कृत्वा । 'पुरोऽव्ययम्' इति गतित्वात्समासः । संस्कारोऽपूर्वशक्त्याधानम् । 'अपूर्वशक्त्याधाने च संस्कारोऽनुभवेऽपि च' इति विश्वः । कृशाश्वो विश्वामित्रगुरुः । आयतन्त आयत्ताः। उच्छ्रसितं जीवितम् । रघुराजबीजी रघुराजवंश्यः । बीजं प्रथमपुरुषः प्रधानपुरुषो वा । 'रघुराजबीजानाम्' इति पाठे रघुराजैव बीजान्यङ्घरकारणानि तेषामुच्छसितमुद्गमः । संप्रदाय उपदेशः । शङ्के तर्कयामि। सहस्रं वत्सरान्सहस्रवर्षान्। 'अत्यन्तसंयोगे द्वितीया'। इह सहस्रशब्देनैकवचनवतैव सहस्रसंख्याया अभिधानं वत्सरशब्देन बहुवचनवता बहुत्वाभिधानम्, अतस्तादशयोरेवान्वयः। अन्यथा योग्यताया अभावः । तन्मूलकमेव 'विंशत्या
द्याः सदैकत्वे संख्याः संख्येयसंख्ययोः' इत्यमराभिधानमपि। उपासीन उपस्थितः । समीपे स्थित इत्यर्थः । 'ईदासः' इतीत्वम् । मन्त्रोपनिषन्मन्त्रबहुलवेदभागभेदः । यद्वा मन्त्रो मन्त्रात्मको वेदः । तथ्याख्याग्रन्थ उपनिषत् । अध्यगीष्टा अधीतवानसि । 'इट् अध्ययने' लुङ् । 'विभाषा लुङ्लुडोः' इति गाडादेशः । गाङ्कुटादिसूत्रेण ङित्त्वे सति 'घुमास्था-' इतीत्वम् । अलं निषेधे। अलं चेत्याद्यर्थान्तरेण द्रढयति-दिव इति । अणुतरोऽपि सूक्ष्मतरोऽपि । अभिनवोऽपीति यावत् । तरणिः सूर्यस्तेजसा किरणेन दिवस्पृथिव्योः खर्गभुवोस्तिमिरमेव तिरस्करिणीमवरोधिकाम् । 'फलकी' इति प्रसिद्धम् । यद्वा जवनिकापटीम् तिरस्करोत्यपसारयति । तिमिरतिरस्करिणीति तिमिरेण तिरस्करिण्या रूपकम् । दिवस्पृथिव्योरिति । द्यौश्च पृथिवी चेति समासे 'दिवसश्च पृथिव्याम्' इति दिवशब्दस्य दिवसादेशः । 'अणुः सूक्ष्मे व्रीहिभेदे' इति विश्वः । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी
१. 'किं पुनः' इति पाठान्तरम्. २. 'परिवत्सरान्' इति पाठान्तरम्. ३. 'द्यावापृथिव्योः'; 'दिवस्पृथिव्योरन्तराले' इति पाठान्तरम्.
For Private and Personal Use Only