________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
काव्यमाला।
त्स्यते । दृष्टं वा निःशेषानन्दनिःस्यन्दिनीनामपीन्दुकरकन्दलीनां कमलवनीमीलनं कलङ्कस्थानम् । (विहस्य ।) का गतिः ।
कूर्मराजभुजगाधिपगोत्रग्रावदिक्करिभिरेकधुरीणः ।
मां प्रसूय कथमस्तु विगीतो हा परार्थविमुखो रघुवंशः ॥ ३९ ॥ विश्वामित्र:-(सस्मितम् ।) राजर्षे, ममकारो हि राजपुत्रेषु राज्ञामुपलालनक्लेशाय केवलम् । उपयोगस्तु प्रजानाम् । यथैतत् ।
कष्टा वेधव्यथा कष्टो नित्यमुद्वहनक्लमः ।
श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ॥ ४० ॥ दशरथ:--भगवन् , परमनुगृहीता वयमेवं तत्रभवता संभाव्यमानाः । किं पुनरकृतास्त्रः क्षीरकण्ठो वत्सोऽयमिति Kग्धोऽस्मि । दृष्टमित्यादि । जगदानन्ददातृणामपि चन्द्रकिणकन्दलीनां कमलवनीमुद्रणं कलङ्कस्थानं दृष्टमिति योजना । कमलवनीत्यत्राल्पार्थे ङीष् । गतिरुपायः प्रकारो वा। 'उपायेऽपि प्रकारेऽपि गतिरुक्ता मनीषिभिः' इति धरणिः । अत्र तावदतिप्रियतमरामभद्रस्याप्रदानमेव श्रेय इति विकल्प्य तत्रापि दूषणमाशङ्कते-कूर्मराजेति। हा कष्टम् । मां प्रसूय जनयित्वा रघुवंशोऽपि परार्थविमुखोऽन्यकार्यविमुखः सन्कथं विगीतो निन्दितोऽस्तु । अपि तु नाम्तु । 'सुगीतः' इति क्वचित्पाठः । तत्र हा कष्टम् । परार्थविमुखोऽन्यप्रयोजनपराङ्मुखः कथमस्तु । अपि तु नास्तु । सुगीतः प्रसिद्धः सन्नित्यर्थः । “विगीतो निन्दिते मतः' इति विश्वः । कूर्मराजः कच्छपपतिः, भुजगाधिपः सर्पराजः, गोत्रमावा कुलपर्वतः, दिक्करी च दिग्गजश्च, एभिः सममेकधुरीणः । धरणीधारक इत्यर्थः । 'कुलं गोत्रम्' इति शाश्वतः । 'ग्रावाचलशैलशिलोच्चयाः' इत्यमरः । एकधुरीण इत्येका चासौ धूश्चैकधुरा । 'ऋक्पू:-' इत्यादिनाच्समासान्तः । 'खः सर्वधुरात्' इत्यनुवृत्तेः 'एकधुराल्लुक च' इति खः । धूर्भारः । 'धूः स्याद्भारचिन्तयोः' इति विश्वः । विश्वामित्रः स्वप्रयोजनाय रामभद्रविषयकदशरथानुरागं शिथिलयति-ममकार इति । ममकारो ममत्वम् । ममशब्दोऽयं विभक्तिप्रतिरूपकोऽव्ययम् । यथा ममतेत्यादौ । उपलालनं दौलीलित्यम् । अत्र दृष्टान्तमाह-कष्टेति । श्रवणानां कर्णानां वेधव्यथा वेधनपीडा कष्टा दुःखप्रदा। वहनक्लम उद्वहनपरिश्रमश्च नित्यम् । कुण्डलं पुनः कपोलस्य गण्डस्यालंकरणम् , न तु श्रवणानाम् । तथा च रामप्रयोजनं खल्वस्मदादीनाम् , न तु भवतामिति भावः । संभाव्यमानाः सम्यक्प्रभाव्यमानाः । अकृतास्त्रोऽशिक्षितायुधवेदोऽनभ्यस्तास्त्रो वा।
१. 'कमलिनीमीलनम्'; 'कमलवनीविनिमीलनम्' इति पाटान्तरम्. २. 'अङ्कस्थानम्' इति पाटान्तरम्. ३. 'क्षीरकण्ठश्च' इति पाठान्तरम्. ४. 'प्रमुग्धोऽस्मि' इति पाठान्तरम्.
For Private and Personal Use Only