________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः ]
अनर्घराघवम् ।
दशरथः -- (सविषादमात्मगतम् ।) कथमिदमस्माकं सकललोकशोकशङ्कद्धरणशीलशीतलेभ्यः कौशिकप्रसादेभ्यो रामभद्रप्रवासवैमनस्यमुत्प
For Private and Personal Use Only
३९
स्वास्थ्यं नास्ति, अतः स्थातुमयुक्तं तत्रेति । यद्वा यादृश इन्द्रोऽसुरविजयी तादृशो दृष्ट एव । सोहुष्टं वचनमेतदिति । तदग्रे गणेशादिनामुरा जिताः, अयं त्वशक्त एव कथं पराजेष्यतीति । यद्वासुराणां विजयोऽसुरविजयः । कर्तरि षष्टी । सोऽस्यास्तीत्यमुरविजयी । असुरकर्तृकविजययुक्त इत्यर्थः । तथा च स न रक्षाक्षम इति न युक्तं तद्राज्ये स्थातुमिति । वरुणस्येयं वारुणी दण्डो दुष्टानां वधबन्धादिना शासनं तत्प्रकाशिका नीतिरनुशासनम् । राज्यस्थितिरिति यावत् । तथा च वारुणी दण्डनीतिर्वरुणसंबन्धिनी राज्यस्थितिर्यथा तथा मत्स्यो न्यायो व्यवहारः कथयति । मात्स्यो हि न्यायो बलवतां दुर्बलसजातीयभक्षक्त्वम् । तथा च साधूनामत्पवनानां महाधनैरसाधुभिरुपद्रव इति पश्चिमदिक्पतेर्वरुणस्याज्ञोक्ता । तथा च तत्राप्यवस्थातुं न सांप्रतम् । अथशब्दः समुच्चये । 'अथ प्रश्नसमुच्चये' इति विश्वः । पातालेन्द्राद्वासुकेर हिभयं सर्पभयं नित्यानुषक्तं नित्य संबद्धमस्ति । तस्य सर्पवात् । यद्वा यो यस्य प्रतिपक्षः स तस्येश्वर इव । तत्र तस्य शक्तिमत्त्वात् । तेन पातालेन्द्रो गरुडस्तस्माद्भयं सर्पाणां नित्यमस्त्येव । तद्रक्षणासमर्थत्वाद्वासुकेः । यद्वा वासुकेरेव सर्पाणां नित्यं भयं कस्यायं वदिष्यति 'गरुडकर्तृकभक्षणार्थं त्वं गच्छ' इति । इति पाताले दोष उक्तः । तत्किमस्मासु तादृग्गुणस्य व्यतिरेक इत्यत आह-- तत्तस्मान्नोऽस्माकं पुण्यैः हे वीर, भवता त्वया करणभूतेन राजन्वती प्रकृष्टराजयुक्ता भूः पृथ्व्यजनि जाता । कर्तरि चिण् । तथा च । इन्द्रादिभ्योऽपि त्वमद्भुतप्रताप इति भाव: । मात्स्य इति 'तस्येदम्' इत्यण् । 'सूर्यतिप्यागस्त्य मत्स्यानां य उपधायाः' इति यलोपाभावः । सविषादमिति । शिशुरामभद्रप्रदानादिति भावः । विषादलक्षणं रसप्रकाशे – 'सत्त्व - नाशो विषादः स्यादिष्टानाप्तिरसत्त्वजः । अकर्तव्यादिजनितो दैवव्यापत्तिजो यथा ॥' अस्य चाभिनय: - 'निश्वासोच्छ्वासहृत्तापसहान्वेषणकादिभिः । ध्याननिद्रावैमनस्य विषादैश्वाभिनीयते' आत्मगतमप्रकाशम् | 'हृदयस्थं वचो यत्तु तदात्मगतमुच्यते । यत्तु श्राव्यं न सर्वस्य स्वगतं तदिहोच्यते ॥' इति भरतः । विषादमेव प्रकटयति — कथमित्यादि । शङ्कुः शल्यम् । ‘शङ्कुः संख्यान्तरे कीले' इति विश्वः । उद्धरणमुत्पाटनम् । 'उद्धरणं समुद्धारे वान्तान्ने पालनेऽपि च' इति धरणिः । उद्धरणमेव शीलं स्वभावस्तेन शीतलेभ्यः । सुखजनकेभ्य इत्यर्थः । वैमनस्यं दुःखिचित्तत्वम् । कौशिकप्रसादस्य विसदृश - फलत्वात् । सकलानुरागविषयाच्छीतलवस्तुनोऽपि वैमनस्यं भवतीत्यत्र दृष्टान्तमाह
१. ‘कौशिकपादेभ्यः' इति पाठान्तरम्. २. 'अप्युत्पस्यते' इति पाठान्तरम्.