________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मध्येकृत्य घनं धिनोति जलधिः खैरम्बुभिर्मेदिनी ___ हन्ति खैः किरणैस्तमिस्रमरुणं कृत्वान्तराले रविः ।
त्वं रामान्तरितश्च पालय निजैरेव प्रतापैः प्रजा___मीदृक्कोऽपि परोपकारसुहृदामेष खभावो हि वः ॥ ३७ ।। किं च ।
दृष्टः साक्षादसुरविजयी नाकिनां चक्रवर्ती ___ मात्स्यो न्यायः कथयति यथा वारुणी दण्डनीतिः । पातालेन्द्रादहिभयमथास्त्येव नित्यानुषक्तं
तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः ॥ ३८ ॥ रिप्यते सरक्षकं विधास्यते। अभूततद्भावे च्विः । कर्मणि लुट् । ननु रामेण तवाश्रमपदमलंकृतं तेनास्माकं किमायातम , यतः सर्वः स्वार्थ समीहत इत्याशङ्कानिरासायाह-अपि
चेति । तथापि करणफलस्य कर्तरि क्व पर्यवसानमित्यत आह-मध्येकृतेति । केचित्तु यद्येवं भवतां महत्प्रयोजनं तदा यज्ञरक्षार्थ मयैव गन्तव्यम् , किं फलं रामभद्रगमनेनेति दशरथवचनमाशङ्कय मध्येकृत्येत्यागुत्थापयन्ति । जलधिः समुद्रो घनं मेघ मध्येकृत्यान्तरामकृत्वाम्बुभिः पानीयमदिनीं पृथिवीं धिनोति प्रीणाति । मेघाः खलु समुद्राजलमादाय वर्षन्ति, तन्मेघद्वारा समुद्रः पृथिवीं प्रीणातीति भावः । रविः सूर्योऽरुणं स्वसारथिमन्तराले मध्ये कृत्वा किरणैस्तमिस्रमन्धकारं हन्ति नाशयति । त्वमपि रामान्तरितो रामोऽन्तरितो मध्यीभूतो यस्य स तादृशः सन् , राममन्तराले कृत्वा निजैः स्वकीयैः प्रतापैः प्रजां पालय रक्ष । प्रकृतप्रयोजक रूपमाह-यतः परोपकारसुहृदां वो युप्माकं जलध्यादित्रयाणामीगीदृशः कोऽप्यनिर्वचनीयः खभावः । तथा च रामद्वारा मत्कार्यमनुपालयेति भावः । मध्येकृत्येति 'मध्येपदे निवचने च' इति गतिसंज्ञा । 'कुगतिप्रादयः' इति समासे क्त्वो ल्यप् । धिनोतीति ‘धिन्विकृण्व्योर च' इत्युकारप्रत्ययोऽकारश्चान्तादेशः । 'तमिस्रं तिमिरं तमः' इत्यमरः । 'अरुणोऽव्यक्तरागेऽर्के संध्यारागेऽर्कसारथौ' इति मेदिनीकरः । 'निजं स्वीये च निये च' इति च । तत्किमन्ये शकादयो रक्षका न सन्येवेत्यत आह-दृष्ट इत्यादि। किं च । अन्यचेत्यर्थः । नाकिनां चक्रवर्तीन्द्रः साक्षात्प्रत्यक्षमेव दृष्टः । कीदृशः । असुरविजय्यमुरस्यैव जेता, नाधर्मस्येति स्तुतिनिन्दापरं वचनम् । यद्वासुरमात्रविजयी स त्वं पुनरधर्मविजय्यसुरविजयी च । यद्वामुराणां विजयी यतः, अतस्तस्य सकुल्यविजयित्वादन्यायप्रवृत्तस्य राज्ये स्थातुं न युक्त मिति। यद्वामुरादिगतो जयो यस्य तादृशः। यद्वा तस्यासुरविजयित्वात्सदैव युद्धं लग्नमेव वर्तते, तेन तस्य
१. 'प्रभावैः' इति पाठान्तरम्.
For Private and Personal Use Only