________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः ]
अनर्घराघवम् ।
पुनरिदानीमपि
यशःस्तोमानुच्चैरुपचिनु चकोरप्रणयिनी
रसज्ञापाण्डित्यच्छिदुरशशिधामभ्रमभरान् । अपि त्वत्तेजोभिस्तमसि शमिते रक्षतु दिशा
मसौ यात्रामैत्री नभसि नितरामम्बरमणिः ॥ ३६ ॥ किं तु केतिपयरात्रमायुधसध्रीचा रामभद्रेण संनिहितवैतानवतानामसाकमाश्रमपदं सनाथीकरिष्यते । अपि च । च्यवत्प्राज्यकृष्णयोः' इति मेदिनीकरः । रामभद्रप्रदानेन किमस्माकं प्रयोजनं स्यादिति दशरथस्याग्रिमशङ्कामाशय तन्निरासाय प्रदानफलमाह-पुनरिदानीमपीत्यादि । इदानीमप्युच्चैरत्यर्थ यशःस्तोमान्यशःसमूहानुपचिनूपचयं नय। रामभद्रप्रदानेनेति भावः। किंभूतान् । चकोरस्य प्रणयिनी प्रिया चकोरी तस्या रसज्ञा जिह्वा तस्या यत्पाण्डित्यं प्रावीण्यं तस्य छिदुरं भेदकर्तृ यच्छशिधाम चन्द्रतेजस्तस्य भ्रमोऽतद्वति तत्प्रकारकं ज्ञानं तस्य भरः प्राचुये येषु तान् । उपचिन्विति 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति हेर्लक् । अयमर्थः--दर्शनेन तावन्न ज्ञातम् , रसनेनापि चकोरीभिर्न ज्ञातम् , स्त्रीत्वात्तासां मौग्ध्य यतः । छिदुरमित्यत्र ‘विदिभिदिच्छिदेः कुरच्' इति कुरच् । वृत्तिकारस्तु 'कर्मकर्तर्येव कुरच्' इत्याह । अत ईदृशी योजना विधेया-चकोरप्रणयिनीरसज्ञापाण्डियेन छिदुरः खतश्छेदनशील: शशिधामभिः सह भ्रमभरो येषां तान् । ताभिस्तावद्रसज्ञापाण्डित्येन ज्ञातमसौ शशिकरः । दर्शनेन ज्ञायते किमिदं यशः शशितेजो वेति । एतेन यशसामतिशयो नैर्मल्यं च दर्शितम् । 'अतिशयो भरः' इत्यमरः । इदानीं यशस उत्कर्षमुक्त्वा प्रतापोत्कघमाह-अपीति । त्वत्तेजोभिस्त्वत्किरणः प्रभावैर्वा तमस्यन्धकारे शोके वा शमिते शान्ति नीते सत्यसावम्बरमणिः सूर्या दिशां यात्रामैत्री गमनेन मैत्री मित्रत्वं यदि न रक्षति नितरां रक्षतु तथापि न कापि हानिः । यस्यां दिशि रविरुदेति सा प्राचीत्यादि व्यवहारमात्रे तदन्वयात् । दिशां तमोनाशस्य त्वत्प्रतापैरेव कृतत्वादिति भावः। 'छिदुरं छेदनद्रव्ये' इति मेदिनीकरः । 'स्तोमौघनिकरवात-' इत्यमरः । 'रसज्ञा रसना जिह्वा' इति च । 'तेजः प्रभावे किरणे' इति विश्वः । 'तमो ध्वान्ते च शोकेऽपि' इति च । 'द्युमणिस्तरणिमित्रः' इत्यमरः । अधुना प्रयोजनमुद्घाटयति-किं त्विति । कतिपयरात्रमिति कतिपयशब्दराजयोर्विशेषणसमासं कृत्वा 'अहःसवैकदेश-' इत्यादिनाच् समासान्तात् 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । 'पोटायुवति-' इत्यनेन तु समासे दारकतिपयवत्परनिपातः स्यात् । आयुधसध्रीचायुधद्वितीयेन । वितानो यज्ञस्तस्येदं वैतानं व्रतम् । ‘वितानो यज्ञ उल्लोचे' इति मेदिनीकरः । संनिहितयज्ञकर्मणामित्यर्थः । सनाथीक
१. 'भ्रमकरान्' इति पाठान्तरम्. २. 'कतिपयमहोरात्रम्' इति पाठान्तरम्.
For Private and Personal Use Only