________________
Shri Mahavir Jain Aradhana Kendra
३६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
एताभिस्तव कौतुकोक्तिभिरपि त्रैविद्यमूर्तेरिव त्वष्टस्यामरशिल्पिना दिनकृतोऽवच्छेदवेदाक्षरैः । पूताः स्मो वयमद्य यद्यपि तदप्याज्ञामपि स्यामहो वोढुं विष्टिरनर्धता रघुकुले कल्पान्तमुन्मीलतु ॥ ३४ ॥ विश्वामित्रः - (विहस्य |) ऐन्दुमतेय, किमन्यन्नियोज्यम् । निर्मुक्तशेषधवलैर चलेन्द्रमन्थसंक्षुब्धदुग्धमयसागरगर्भगौरैः । राजन्निदं बहुलपक्षदलन्मृगाङ्क
च्छेदोज्ज्वलैस्तव यशोभिरशोभि विश्वम् ॥ ३५ ॥
1
भिरिति । एताभिस्तव कौतुकोक्तिभिरपि परिहासवचनैरपि यद्यपि वयं पूताः पवित्राः स्मः, तदपि तथापि तवाज्ञां वोढुमुद्रोढुं विष्टिः कर्मकरः स्यां भविष्यामि | कैरिव । त्रिविद्यैव त्रैविद्यम् । स्वार्थे ष्यञ् । मूर्तिः शरीरम् | त्रैविद्यमूर्तेस्त्रिवेदीशरीरस्य दिनकृतः सूर्यस्यावच्छेदाः खण्डानि तान्येव वेदास्तेषामक्षरैरिव । तथा च वेदतुल्योक्तिसंबन्धात्पावित्र्यं युज्यत एव | अमरशिल्पना विश्वकर्मणा त्वष्टस्य । कुन्दे तनूकृतस्येत्यर्थः । 'तक्षु त्वक्षू तनूकरणे' । कर्मणि क्तः । पुरा विश्वकर्मणा सूर्यः कुन्दे निधाय सुन्दरीकृतः - इति पुराणवार्ता | नियोगकरणे फलमाह - रघुकुलेऽनर्घतामूल्यता । अतिपूज्यता वा । कल्पान्तं कल्प पर्यन्तमुन्मीलतु प्रकाशताम् । तवाज्ञाकरणादिति भावः । 'विष्टिः कर्मकरे त्रिषु' इति मेदिनीकरः । कल्पान्तमिति 'कालाध्वनो:-' इति द्वितीया । ऐन्दुमतेय इन्दुमती - पुत्रः । ‘स्त्रीभ्यो ढक्’ । नियोज्यं वक्तव्यम् । निर्मुक्तेति । हे राजन्, तव यशोभिविश्वमशोभि । दीप्तमित्यर्थः । कीदृशैः । बहुल: कृष्णपक्षोऽर्धमासः । बहुलपक्षे कृष्णपक्षे यो दलंस्रुटन्मृगाङ्कश्चन्द्रस्तस्य यश्छेदः खण्डं तद्वदुज्ज्वलैः । निर्मुक्तो मुक्तकको यः शेषनामा सर्पस्तद्वद्धवलैः । अचलेन्द्रो मन्दरसंज्ञकोऽद्रिः स एव मन्थो मन्धनदण्डस्तेन संक्षुब्धो मथितो यो दुग्धमयः सागरः क्षीरसमुद्रस्तस्य गर्भोऽभ्यन्तरं तद्वद्वीरैः श्रुतैः । संक्षुब्धेत्यत्र 'क्षुब्धखान्तध्वान्त - ' इत्यादिना मन्थे क्षुब्धनिपातनादपशब्दता नाशङ्कया । क्षुब्ध इत्येतत्परो निपातः। न तु संक्षुब्ध इत्यत्रापि । सोपसर्गेऽनियमात् । यद्वा मन्ये भाव्ये क्षुब्ध इत्येव भवति, क्षोभे तु क्षुभितं क्षुब्धमिति द्वयमपि भवतीति निपातार्थः । यद्वा क्षुभ्यतेऽनेनेति क्षुप् । सम्यक्प्रकारेण क्षुपं दधातीति संक्षुब्ध इति । 'निर्मुक्तो मुक्तकबुकः' इत्य मरः । 'गौरः पीतेऽरुणे श्वेते' इति मेदिनीकर: । 'बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूनि विहायसि नपुंसकम् ॥ पुंस्यग्नौ कृष्णपक्षे च वा
:
१. 'तथास्याज्ञामपि स्यामहम्' इति पाठान्तरम्.
For Private and Personal Use Only