________________
Shri Mahavir Jain Aradhana Kendra
१ अङ्कः]
( विहस्य 1 )
www.kobatirth.org
अनर्घराघवम् ।
Acharya Shri Kailassagarsuri Gyanmandir
जवादाराद्धुं त्वामुपनमति वर्गे दिविषदामैपव्यस्तो मन्दैरजनि रथहंसैः कमलभूः । नियच्छामो जिह्वां न तव चरितेभ्यः किमुत ते सुधासध्रीचीनामतिपतति वाचामवसरः ॥ ३३ ॥
(अञ्जलिं बच्चा ।) भगवन्, प्रसीद तावत् । उत्तरोत्तरेषां महोत्सवानां कदाचिदपि न तृप्यन्ति पुंसां हृदयानि, यदियं त्वदुपस्थानसुलभसंभावनातिप्रसङ्गसंगीत नर्तकी मे चित्तवृत्तिर्नियोगानुग्रहाय स्पृहयति । अपि च ।
३५
चनानि । अन्तरायं विन्नम् । 'पुरा विश्वामित्रेणान्या सृष्टिः कर्तुमारब्धा । अनन्तरमिन्द्रादीनां दैन्योक्त्या पादपातेन च समुपशमिता' इति पुराणम् । ब्रह्मणोऽपव्यस्ततामुत्प्रेक्ष्याह —– विहस्य जवादिति । जवाद्वेगाद्दिविषदां देवानां वर्गे त्वामाराद्धुमुपनमत्युपनते सति कमलभूर्ब्रह्मा मन्दैर्मन्थरगमनै रथहंसै रथबद्धहंसैरपव्यस्तोऽजनि विसंस्थलो जातः । सत्वरकार्ये मन्दगमनादपव्यस्तता । तव चरितेभ्यो जिह्वां न नियच्छामो न निवारयामः । वयं नृम एव तव चरितानीत्यर्थः । किं तु सुधासध्रीचीनाममृतसहच • रीणां तव वाचामवसरः प्रस्तावोऽतिपतत्यतिक्रामति । त्वदागमनप्रयोजनं ज्ञातुमिच्छामि तदादेशयेति भावः । अत्र चरितेभ्य इति पञ्चमी । 'प्रस्तावेऽवसरो वर्षे' इति विश्वः । 'व्यस्तो विसंस्थुले ख्याते' इति धरणिः । यद्वा चरितेभ्य इति चतुर्थी । तव चरितेभ्यो जिह्वां न नियच्छामो वयं न दद्मो दातुमसमर्थाः किमुत किं च सुधासध्रीचीनां तव वाचामवसरोऽतिक्रामति । दाणो यच्छादेशः । सध्रीचीनामिति अञ्चतेः सहशब्दोपपदात् 'ऋत्विक्- ' आदिसूत्रेण क्विन् । 'सहस्य सधि:' । 'अञ्चतेश्चोपसंख्यानम्' इति ङीप् । ‘अचः’ इत्यकारलोपः । 'चौ' इति दीर्घः । उत्तरोत्तरेषामग्रिमाग्रिमाणाम् । महोत्सवानामिति करणे षष्ठी । अत्र यद्यपि षष्ठीविधायकं प्रमाणं नास्ति, तथापि 'पूरण-' इत्यादिसूत्रेण षष्ठीसमासनिषेधात्करणे षष्ठ्यनुमीयते । यथा - 'नाग्निस्तृप्यति काष्टानां नापगानां महोदधिः' इति । उपस्थानं पूजास्तवादिकम् । यद्वोपस्थानमुपस्थितिः । संभावना गौरवम्, तस्या अतिप्रसङ्गोऽतिशयः स एव संगीतं तत्र नर्तकी । नियोग आज्ञा तद्रूपोऽनुग्रहस्तस्मै स्पृहयति । 'स्पृहेरीप्सितः' इति संप्रदानता । एता
३. प्रसी
१. 'अपव्वस्तः' इति पाठान्तरम्. २. 'अभिपतति' इति पाठान्तरम्. दतामुत्तरोत्तरेषाम्' इति पाठान्तरम्. ४. 'नियोगानुयोगाय' इति पाठान्तरम्.
For Private and Personal Use Only