________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
काव्यमाला। विश्वामित्रः-(सगौरवं दशरथबाहुमामृशन् ।) राजर्षे वसिष्ठशिष्य, संवृत्तोऽयं यदि तव भुजच्छायया संप्रतीन्द्रो
निर्विघ्नश्रीरियमभिनवा कीदृशी ते प्रशस्तिः । इक्ष्वाकूणां लिखितपठिता खर्वधूगण्डपीठ
क्रीडापत्रप्रकरमकरीपाशुपाल्यं हि वृत्तिः ॥ ३१ ॥ दशरथ:-भगवन्सर्वोद्भुतनिधे, भगवन्तमनुगन्तुमुक्तिप्रत्युक्तिकया के वयम् । एवं किल त्रिशङ्कुसंकीर्तनोपख्यानपारदृश्वानः पौराणिकाः कथयन्ति ।
त्रासोत्कम्पत्रिदशपरिषन्मौलिमाणिक्यमाला
बालादित्यप्रकरकिरणस्मेरपादारविन्दे । प्राचीमेतां भुवनरचनामन्यथा निर्मिमाणे
कार्पण्योक्तीस्त्वयि रचितवानन्तरायं महेन्द्रः ॥ ३२ ॥
परस्मैपदं च'। कीदृशैः । बहिर्निर्यद्भिर्बहिर्निर्गच्छद्भिः। रोषदहनस्यति रूपकम् । ज्योतिःस्फुलिङ्गैः । ज्योतिर्युक्ताग्निकणैरिवेत्यर्थः । 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः । 'दम्भोलिरशनियोः' इति च । अग्नेरिदमाग्नेयम् । 'सर्वत्राग्निकलिभ्यां ढक्' । आमृशन्स्पृशन् । विश्वामित्रो राजर्षित्वं द्रढयितुं वसिष्ठशिष्येति संबोधनमाह-संवृत्तोऽयमिति । तव भुजच्छायया भुजाश्रयेण भुजलक्ष्म्या वा निर्विघ्नश्रीः संप्रतीदानीं यद्ययमिन्द्रः संवृत्तः संपन्नस्तदेयं तव कीदृशी नूतनाभिनवा प्रशस्तिः स्तुतिः । अपि तु न कापि । प्रशस्तेरप्राशस्त्ये बीजमाह-हि यत इक्ष्वाकूणां रघूणां खर्वधूनां देवस्त्रीणां यो गण्डपीठेषु क्रीडापत्रप्रकरः पत्रावलीसमूहस्तत्र मकरी जलजन्तुविशेषस्त्री तस्याः पाशुपाल्यं रक्षा सैव वृत्तिः स्थितिः । लिखिता पठिता चेति समासः । लोकोक्तिरियम् । देवकृत्यमपि भवानेव करोतीति भावः । सर्वाद्भुतनिधे इति वक्ष्यमाणाद्भुतकारित्वात्संबोधनम् । उक्तिप्रत्युक्तिकया भाषोत्तरेण के वयम् । अपि तु न केऽपि । अशक्ता इत्यर्थः । किल आगमे । संकीर्तनमित्यधिकरणे ल्युट । उपाख्यानमितिहासः । दृश्वान इत्यत्र 'दृशेश्च' इति क्वनिप् । पौराणिका इति पुराणं जानन्ति । 'आख्यानाख्यायिकेतिहासपुराणेभ्यष्टग्वक्तव्यः' । सांप्रतं विश्वामित्रं स्तोतुमुपक्रमते-त्रासोत्कम्पेति । त्रिदशपरिषद्देवसभा। माणिक्यं रत्नभेदः । तस्य लोहितत्वाद्वालसूर्येण रूपणम् । स्मेरं विकासि । एतां प्राची पुरातनी निर्मिमाणे कुर्वाणे । 'माङ् माने शानच् । द्विवचनमित्वम् । कार्पण्योक्तीर्दैन्यव
१. 'दशरशस्य बाहुं स्पृशन्'; 'दशरथबाहुमास्पृशन्' इति पाठान्तरम्.
For Private and Personal Use Only