________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः ] अनर्घराघवम् ।
३३ वामदेवः-महाराज भूकश्यप, यथाह भगवान्कौशिकः । खयमनेकधा सुधर्मायामध्यक्षीकृतमहमपि ब्रवीमि ।। त्वय्यर्धासनभाजि किंनरगणोद्गीतैर्भवद्विक्रमै
रन्तःसंभृतमत्सरोऽपि भगवानाकारगुप्तौ कृती। उन्मीलद्भवदीयदक्षिणभुजारोमाञ्चविद्धोच्चर
द्वाप्पैरेव विलोचनैरभिनयत्यानन्दमाखण्डलः ॥ २९॥ दशरथः--(सस्मितम् ।) वामदेव, त्वमपि भगवन्तं गाधिनन्दनमनुप्रविष्टोऽसि ।
एतस्मै समराङ्गणप्रणयिने तिष्ठेत कः प्रज्वल
दम्भोलिद्युतिमण्डलोद्भटभुजस्तम्भाय जम्भारये । निर्यद्भिर्बहिरेष रोषदहनज्योतिःस्फुलिङ्गैरिव
खै रज्यद्भिरपीक्षणैः समतनोदानेयमस्त्रं द्विषाम् ॥ ३० ॥
भायाम् । 'स्यात्मुधर्मा देवसभा' इत्यमरः । अध्यक्ष प्रत्यक्षम् । त्वयीति । त्वय्य र्धासनभाज्यर्धासन उपविष्टे सति, आखण्डल इन्द्रो विलोचनैरेवानन्दं हर्ष. मभिनयति प्रकाशयति । कीदृशः । किंनरगणैरुद्गीतैरुच्चैगीतैर्भवत्पराक्रमैरन्तरभ्यन्तरे संभृत उद्भिनो मत्सरो मात्सर्य पराभ्युदयासहिष्णुता यस्य सः । स्वपराक्रमातिरिक्तत्वत्पराकमश्रवणात् । आकारगुप्तौ बाह्यविकारगोपनक्रियायां कृती कुशलः । दशरथो मत्क्रोधं मा जानात्वित्याशयात् । लोचनैः कीदृशैः । उन्मीलद्यो भवदीयदक्षिणभुजारोमाञ्चः । स्वपराक्रमश्रवणात् । तेन रोमाञ्चेन विद्धा वेधिता अत एवोचरन्त उद्गच्छन्तो बाष्पा येषु तैः । अश्रुणः पूर्वावस्था बाष्पः । 'मत्सरो मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान्' इति मेदिनीकरः । 'विद्धं स्याटेधिते क्षिप्ते' इति च । अनुप्रविष्टो मिलितः । एतस्मा इति । एतस्मै जम्भारय इन्द्राय कस्तिष्ठेत क आत्मानं प्रकाशयेत् । अपि तु न कोऽपि । 'प्रकाशनस्थेयाख्ययोश्च' इति तङ् । 'श्लाघहुङ्-' इति संप्रदानता । समराङ्गणप्रणयिने सङ्ग्रामाङ्गणसाधवे । प्रज्वलन्यो दम्भोलिर्वजं तस्य द्युतिमण्डलेन तेजःसमूहेनोद्भटः ख्यातो भुजस्तम्भो यस्य तस्मै । सङ्ग्रामाङ्गणे शत्रोनरवस्थाने हेतुमाह-निर्यद्भिरिति । एष इन्द्रो द्विषां शत्रूणामाग्नेयमस्त्रं समतनोद्विस्तारितवान् । कैः । खै रज्यद्भिरपि स्वयं रक्तीभवद्भिरपि लोचनैः । 'कुषिरजोः प्राचां श्यन्
१. 'वामदेवः' इत्यस्मादग्रे “विहस्य' इत्यधिकं क्वचित्. २. 'यदाह' इति पाठान्तरम्. ३. 'बन्धोचरत्' इति पाठान्तरम्. ४. 'सखे वामदेव' इति क्वचित्.
अन० ४
For Private and Personal Use Only